________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलित.
सुखं मदीयमेवेति कृत्वा सर्वं सुखजातीयं मे भूयादिति चिन्तात्मिका रागवासना निवर्तते, दुःखिषु करुणां भावयतश्च वैर्यादिनिवृत्त्या द्वेषवासना निवर्तते, तथा पुण्यवत्सु मुदिताभावनात् पुण्याऽकारणानुशय निवृत्तेस्तद्वासना निवर्तते, तथा पापेषूपेक्षां भावयतस्तत्करणनिमित्तकानुशयनिवृत्तेस्तद्वासना निवर्तत इति, ततोsशुक्लाsकृष्णपुण्यप्रवृत्ति - चित्तप्रसादाभ्यां परं माध्यस्थ्यमिति पातञ्जलानां प्रक्रिया" इति ॥ ३४ ॥ १४६ ॥
wwwwwwww
परहृदयमुद्घाटयति-
यावदेवंविधं नैतत् प्रवृत्तिस्तावदेव या ।
साऽविशेषेण साध्वीति, तस्योत्कर्षप्रसाधनात् ॥ ३५ ॥ १४७ ॥ यावदिति यावत्कालमित्यर्थः, एवंविधम् परमं गम्यागमनादौ सर्वत्राप्रवृत्तिरूपमिति यावत्, एतत् माध्यस्थ्यम्, न न भवति, तावदेव तावत्कालमेव, या प्रवृत्तिः, सा प्रवृत्तिः, अविशेषेण गम्यागम्यादिषु सामान्येन तुल्यतयैवेति यावत्, साध्वी समीचीना, कुत इत्याकाङ्क्षायामाह - तस्येति-तस्य- माध्यस्थ्यस्य, उत्कर्षप्रसाधनात् परमत्वलक्षणोत्कृष्टतासम्पादनात् इति एतस्मात् कारणात्, गम्यागम्यादावविशेषेण प्रवृत्तिर्न्यायेति पराभिसन्धिः ॥ ३५ ॥ १४७ ॥
अन्रोत्तरमुपदर्शयति
नाप्रवृत्तेरियं हेतुः, कुतश्चिदनिवर्तनात् ।
२९
"
सर्वत्र भावाविच्छेदादन्यथाऽगम्यसंस्थितिः ।। ३६ ।। १४८ ॥ नाप्रवृत्तेरिति । इयं गम्यागम्यादौ तुल्यतया प्रवृत्तिः, अप्रवृत्तेः सर्वत्र गम्याऽगम्यादावप्रवृत्तिलक्षणपरममाध्यस्थ्यस्य, हेतुः कारणं, न नैव भवति, कुतः ? इत्याकाङ्क्षानिवृत्तये त्वाह- कुतश्चिदनिवर्तनादिति - क्वापि विषये निवृत्त्याख्यप्रयत्नाभावात्, प्रत्युत यथालाभं सर्वत्र प्रवृत्तेरित्यर्थः, इदमपि कुतः ? इत्यपेक्षायामाह-सर्वत्रेति-सर्वस्मिन् भोग्यविषये इत्यर्थः, भावाविच्छेदात् कामनाविच्छेदाभावात् इच्छानिवृत्त्यभावादिति यावत्, अन्यथा क्वचित् कामना - निवृत्त्यङ्गीकारे, अगम्यसंस्थितिः अगम्यव्यवस्था, यतो यद्भिन्ने प्रवृत्तिस्तदेवागम्यमिति ॥ ३६ ॥ १४८ ॥