________________
wmM
WW
शास्त्रवार्तासमुच्चयः ।
[द्वितीयः दुपाये द्वेषा भवति, द्वेषाच्च तद्विषयिणीच्छा नोपजायते, ततश्वेच्छाऽभावान्न प्रवर्तते, द्वेषासहकृतस्यैवेष्टसाधनताज्ञानस्योपायेच्छां प्रति कारणत्वादित्याशयवद्भिरुपाध्यायः, अप्रवृत्त्यैवेत्यस्य तन्निबन्धनविषयद्वेषात् तदनिच्छयेत्यर्थः कृतः, तैरेव चोत्कृष्टमाध्यस्थ्यं निरुक्ताप्रवृत्त्या विशुद्धभावनाभ्यासाद् यथा भवति तथा वशिष्ठवचनसंवादपुरस्सरमुपदर्शितमुल्लिख्यते
"तन्निबन्धनविषयद्वेषात् तदनिच्छया निर्ममत्वमासाद्य विशुद्धानां मैत्र्याधुपबृंहितानां भावनानामनित्यत्वाद्यनुप्रेक्षाणामभ्यासाद् दृढमानसोत्साहात् परमनिर्ममत्वप्राप्तः, विषयद्वेषस्यापि वढेचं विनाश्यानु विनाशवद् विषयेच्छां विनाश्य तत्कालं विनाशात् ; तत्-प्रागुक्तम् , परम्-उत्कृष्टम् , माध्यस्थ्यं भवति यतः, अतोऽन्यथा नोपपद्यत इति भावः; तदिदमुक्तं वशिष्ठेनापि
"मानसीर्वासनाः पूर्व, त्यक्त्वा विषयवासनाः।
मैत्र्यादिवासना राम!, गृहाणाऽमलवासनाः॥ १॥" तत्र वासनालक्षणमिदम्"दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य, वासना सा प्रकीर्तिता ॥ २॥" सा च द्विविधा-मलिना शुद्धा च, तत्र शुद्धा योगशास्त्रसंस्कारप्राबल्यात् तत्त्वज्ञानसाधनत्वेनैकरूपाऽपि मैत्र्यादिशब्दैविभक्ता, मलिना तु त्रिविधालोकवासना शास्त्रवासना देहवासना चेति, सर्वे जना यथा न निन्दन्ति तथैवाऽऽचरिष्यामीत्यशक्यार्थाभिनिवेशो लोकवासना; अस्याश्वाशक्यार्थत्वपुमर्थानुपयोगित्वाभ्यां मलिनत्वम् ; शास्त्रवासना त्रिविधा-पाठव्यसनं बहुशास्त्रव्यसनम् , अनुष्ठानव्यसनं चेति, मलिनत्वं चास्याः क्लेशावहत्व-पुमानुपयोगित्वदर्पहेतुत्वैः; देहवासना च त्रिविधा-आत्मत्वभ्रान्तिः, गुणाधानभ्रान्तिः; दोषापनयनभ्रान्तिश्च; गुणाधानं द्विविधं-लौकिकं शास्त्रीयं च, आद्यं सम्यक्शब्दादिविषयसंपादनम् , अन्त्यं गङ्गास्नानादिसंपादनम् , दोषापनयनमप्येवं द्विविधम्आद्यमौषधेन व्याध्याद्यपनयनम् , अन्त्यं स्नानादिनाऽशौचाद्यपनयनम् , एतन्मालिन्यं चाऽप्रामाणिकत्वात् , अशक्यत्वात् , पुमर्थानुपयोगित्वात् , पुनर्जन्महेतुत्वाच्च, शुद्धवासनया चेयं मलिनवासना क्षीयते, तथाहि-सुखिषु मैत्री भावयतस्तदीयं