________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः "स्वधर्मोत्कर्षादेवेति सप्ताक्षरकं न सङ्गतं, यद्युत्कर्षसमानार्थकमुत्कर्षणमिति तदा स्वधमाकर्षणादेव" इति तत्स्थाने भवितुमर्हति, तथा च व्याख्यायां तथैव तत्प्रतीकमुपादाय व्याख्यानं सुसङ्गतम् ॥ ३१ ॥ १४३ ॥ उक्तदोषापनोदाय पराभिप्रायमुपदर्शयतिमाध्यस्थ्यमेव तद्धेतुरगम्यागमनादिना । साध्यते तत् परं येन, तेन दोषो न कश्चन ।। ३२॥१४४॥ माध्यस्थ्यमेवेति-अरक्तद्विष्टत्वमेवेत्यर्थः, तद्धेतुः मुक्तिहेतुः, तत् परं क्लेशवासनयाऽक्षोभ्यत्वादरक्तद्विष्टत्वरूपं माध्यस्थ्यं प्रकृष्टम् , येन कारणेनागम्यागमनादिना, साध्यते निष्पाद्यते, गम्यामप्युपगच्छति अगम्यामप्युपगच्छतीत्येवमविशेषेण प्रवृत्ते रक्तद्विष्टत्वलक्षणमाध्यस्थ्यमेव निष्पादितं सन्मुक्तिहेतुः, तेन कारणेन, न कश्चन दोषः पूर्वोक्तदोषो न भवति, माध्यस्थलक्षणकारणोत्कर्षेण मुक्तिलक्षणकार्यस्य सम्भवात् , माध्यस्थ्योत्कर्षसम्पादकतयाऽगम्यागमनाथुपयोगस्यापि युक्तत्वादित्याशयः ॥ ३२ ॥ १४४ ॥ निरुक्तएराभिप्रायं प्रतिक्षिपतिएतदप्युक्तिमात्रं यदगम्यागमनादिषु । तथा प्रवृत्तितो युक्त्या, माध्यस्थ्यं नोपपद्यते ॥३३॥१४५॥ एतदपीति-अनन्तरोक्तमपीत्यर्थः, उक्तिमात्रं युक्तिविकलं वाङ्मात्रम् , यत् यस्माद्धेतोः, अगम्यागमनादिषु अनन्तरोदितेषु अगम्यागमनादिषु, तथा प्रवृत्तितः तुल्यतया प्रवृत्तेः, युक्त्या युक्त्या विचार्यमाणं सत् , माध्यस्थ्य म् अरक्तद्विष्टत्वम् , नोपपद्यते नोपपन्नं भवति ॥ ३३ ॥ ५४५ ॥ परममाध्यस्थ्यं यथोपपद्यते तथोपदर्शयतिअप्रवृत्त्यैव सर्वत्र, यथासामर्थ्यभावतः। विशुद्धभावनाभ्यासात् , तन्माध्यस्थ्यं परं यतः॥३४॥१४६॥
अप्रवृत्त्यैवेति । सर्वत्र गम्यागमनागम्यागमनादौ सर्वत्र, यथासामर्थ्यभावतः यावत् परिहतु स्वस्य सामर्थ्य तावत् स्वपरिहारसामर्थ्यमनुलङ्घय, अप्रवृत्त्यैव प्रवृत्त्यभावेनैव निवृत्त्यैव वा, इदं ममेष्टसाधनमितीष्टसाधनताज्ञानादिदं कुर्यामितीच्छया प्रवृत्तिर्भवति, इदं मम द्विष्टसाधनमिति द्विष्टसाधनताज्ञाना