________________
[द्वितीयः
२६
शास्त्रवार्तासमुच्चयः ।
च नोक्तप्रत्यक्षबाधकत्वं लोकसिद्धोक्तप्रत्यक्षस्य बहुसिद्धत्वेनागम्यागमनादिप्रतिपादकवचनापेक्षया बलवत्त्वात्, यद्यपि शतमप्यन्धानां न पश्यतीति न्यायात् केवलं बहुसिद्धत्वमप्रयोजकं बलवत्त्वस्य, तथापि अनुमानस्य व्याप्तिग्राहकतयाऽऽगमस्य च शक्तियोग्यतादिग्राहकतयोपमानस्य च सादृश्यग्राहकतया प्रत्यक्षमुपजीव्यमिति दर्शितप्रत्यक्षस्योपजीव्य जातीयत्वमप्यस्ति, यदि भगिन्यादिगमनादिकं धर्मजनकं स्यात् तदाऽविगानेन धर्मजनकत्वाभाववत्तया सकलजनसिद्धप्रत्यक्षविषयो न भवेदित्यनुकूलतर्कसहकृतत्वं च प्राबल्यप्रयोजकं समस्तीति ॥ ३० ॥ १४२ ॥
दृष्टविरोधमुपदश्येष्टविरोधं मण्डलतन्त्रादिवादिमते उपदर्शयतिस्वधर्मोत्कर्षा (र्पणा) देव, तथा मुक्तिरपीष्यते । हेत्वभावेन तद्भावो, नित्य इष्टेन बाध्यते ॥ ३१ ॥ १४३ ॥
स्वधर्मोत्कर्ष देवेति - स्वाभिमतागम्यागमनादिधर्मप्रकर्षादेवेत्यर्थः तथा तद्वत्, मुक्तिरपीष्यते अधिकृतागम्यागमनादिवादिभिर्मोक्षोऽपि स्वीक्रियते; भवतु मोक्षाभ्युपगमस्तेषां ततः किमित्यत आह- हेत्वभावेनेति-सर्वागम्यागमनादीनां कर्तुमशक्यतया सर्वागम्यागमनादिलक्षणतदुत्कर्षात्मक चर महेत्व - सम्भवेनेत्यर्थः, तद्भावः मुक्तत्युत्पादः, नित्यः हेतु निरपेक्षः स्यात्, आकाशादिवत् सर्वदा भावः स्यात्, अहेतोर्नित्यं सत्त्वमसत्त्वं वा, यदुक्तं - " नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणाद्” [ ] इति; अथवा अकारप्रश्लेषेण अनित्यः - अभवनशीलः स्यात्, शशशृङ्गादिवत्, उक्तवचनमेतस्मिन्नर्थेऽपि संवादकम्, स च इष्टेन स्वाभ्युपगतेन अगम्यागमनादिधर्मप्रकर्ष हेतुकत्वेन, बाध्यते विरुद्ध्यते ।
अत्र मूल कर्तुर्हरिभद्रसूरेर्व्याख्यानं - " तद्भावः - मुक्तिभावः, नित्यः शाश्वतः, इष्टेन बाध्यते, हेत्वभावेन तत्प्रकर्षाभावे परम माध्यस्थ्याभाववत्तदभावादिति" एवंस्वरूपं वचनान्तरेणोल्लिख्य तद्धृदयमित्थमुपवर्ण्योपपादितवन्त उपाध्यायाः“तद्भावः- मुक्तिसद्भावः, नित्यः स्यात्, हेत्वभावेन मुक्तानां मुक्तताऽक्षतेः, तथा चेष्टबाधः” इति ग्रन्थकृदाशयस्तु हिंसाध्यवसाय विशेषरूपहिंसोत्कर्षेण प्राक्कर्मक्षयसंभवेऽप्यग्रे तदभावेन क्षणिकत्व द्वाराऽसंभवादुपपाद्यः" इति, अत्र प्रथमचरणं