________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
२५ तद्होऽबाधितप्रत्यक्षादिस्वाभ्युपगमविरुद्धार्थाभिधायकत्वलक्षणदृष्टेष्टविरोधरूपप्रथमहेतुग्रहत एव सम्भवति नान्यथेत्युपजीव्यत्वात् प्रथमहेतोराश्रयणमेव युक्तमित्युपदर्शयन् तदुपदर्शनमेव प्रतिजानीते
दृष्टेष्टाभ्यां विरोधाच, तेषां नाप्तप्रणीतता। नियमाद् गम्यते यस्मात् , तदसावेव दयते ॥ २९ ॥१४१॥
दृष्टेष्टाभ्यामिति । तेषां विप्रतिपन्नानां जैनातिरिक्तदर्शनानामधिकृतार्थबाधकानां; दृष्टेष्टाभ्यां विरोधाच्च नाप्तप्रणीततेति-स्पष्टम् , किन्तु नाप्तप्रणीततेत्यस्यानाप्तप्रणीतत्वमाप्तप्रणीतत्वाभावो वाऽर्थः, कथमित्याकाङ्क्षानिवृत्तये उपाध्यायैरिदमभिहितम्-"नाप्तपदस्य नाकादिमध्यनिवेशाश्रयणादनाप्तप्रणीततेत्यर्थः, "आप्तप्रणीतता" इत्युत्तरं नजो योजनात् , तत्र क्रियान्वये तात्पर्यादाप्तप्रणीतत्वाभाव इति वाऽर्थः" इति, नियमात् यत्र यत्र दृष्टेष्टाभ्यां विरुद्धत्वं तत्रानाप्तप्रणीतत्वम् , आप्तप्रणीतत्वाभावो वेति व्याप्तेः; तादृशसामान्यव्याप्तिग्रहणादित्यर्थः, गम्यते अनुमीयते, जैनागमातिरिक्तागमा अनाप्तप्रणीता आप्तप्रणीतत्वाभाववन्तो वा दृष्टेष्टाभ्यां विरोधादिति प्रयोगोऽत्र द्रष्टव्यः; यस्मात् दृष्टेष्टविरोधहेतुकानुमितिविषयत्वात् , तत् तस्मात् कारणात् , दृष्टेष्टाभ्यां विरोधस्य प्रथमहेतुस्वरूपस्य सिद्धौ ततोऽनाप्तप्रतीतत्वमाप्तप्रणीतत्वाभावो वाऽनायासेनैव सिध्यति द्वितीयो हेतुरित्यत इति यावत् , असावेव दृष्टेष्टाभ्यां विरोध एव, दर्यते शब्देन बोध्यते ॥ २९ ॥ ११ ॥ - जैनातिरिक्तदर्शनेषु मध्ये प्रथमं मण्डलतन्त्रादिवादिमते दृष्टेष्टविरोधयोरुपदर्शयितव्ययोरादौ दृष्टविरोधमुपदर्शयति
अगम्यागमनादीनां, धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धन, प्रत्यक्षेण विरुध्यते ॥ ३० ॥ १४२ ॥ अगम्यागमनादीनामिति-लोकशास्त्रनिषिद्धभगिन्यादिगमन-मांसभक्षणप्रभृतीनाम् , क्वचित् मण्डलतत्रादौ, धर्मसाधनता धर्म प्रति कारणता, उक्ता प्रतिपादिता, सा लोकप्रसिद्धन आविद्वदङ्गनादिजनसिद्धेन, प्रत्यक्षेण भगिन्यादिगमन-मांसभक्षणादिकं न धर्मजनकमित्याकारेण श्रुतनिश्रितादिमतिज्ञानरूपेण प्रत्यक्षेण, विरुध्यते बाध्यते; अगम्यागमनादिप्रतिपादकवचनानां