SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ द्वितीयः भवति, न पुनस्तत एव ब्रह्महत्याया एव न पुनर्प्रामादिलाभो भवति, तथा प्रकृतमपि सौख्यफलं पुत्रप्राप्यादिजन्यं क्षुद्रदेवताविशेषोद्देश्यकभूतवधाद्यनुष्ठानान्न भवति, किन्तु प्राचीनपापानुबन्धिपुण्यादेव भवतीति भावः; ननु ग्रामादिलाभाय ब्राह्मणं हन्यादित्येवं विध्यभावान्माऽस्तुग्रामादिलाभो ब्रह्महत्याफलं, क्षुद्रदेवताविशेषोद्देशेन क्रियमाणभूतवधादिकर्मणस्तु पुत्रप्रायादिफलं विधिबोधितमिति दृष्टान्त-दाष्टन्तिकयोर्वैषम्यमित्यत आह- एतदिति - एवंविधं वस्तु, यदनन्तरमेवोपपादितमित्यर्थः; आगमादेव गम्यते आगमप्रमाणादेवावबुध्यते, नान्यस्मात् प्रमाणात्, “मा हिंस्यात् सर्वा भूतानि” [ ] इत्यागम एव प्राणिमात्रहिंसाप्रतिषेधबोधको निषिद्धस्य हिंसासामान्यस्य दुःखजनकत्वं बोधयति, तत् कथमागम एव हिंसाविशेषस्य सुखजनकत्वं बोधयेदिति हृदयम् ; यद्येवंविधार्थे आगमः प्रमाणतया नाऽऽश्रीयेत तदा श्रोत्रियेणापि म्लेच्छादिकृतगोवधादिकर्मविशेषात् फलविशेषदर्शनाद् गोवधादिकं किमिति नानुष्ठेयमित्येवं प्रश्ने किं समाधानं विधेयमिति सूक्ष्ममवलोकितमुपाध्यायैः ॥ २७ ॥ १३९ ॥ २४ यच्च परेणोक्तं प्राकू 'भागमोऽपि प्रतिपक्षागमबाधितः' इति तन्न समीचीनम्, प्रतिपक्षतयाऽभिमतानामागमानां दुर्बलत्वेनाप्रतिपक्षत्वादित्याह प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः । तथाऽनाप्तप्रणीतत्वादागमत्वं न युज्यते ।। २८ ।। १४० ॥ प्रतिपक्षागमानां चेति-अधिकृतार्थबाधकानां जैनातिरिक्तदर्शनानां पुनरित्यर्थः । दृष्टेष्टाभ्यां विरोधत इति 'आगमत्वं न युज्यते' इत्यनेनान्वितम्, दृष्टविरोधः - अबाधितप्रत्यक्षादि विषयीभूतार्थविरुद्धार्थाभिधायकत्वम्, इष्टविरोधःस्वाभ्युपगतार्थविरुद्धार्थाभिधायकत्वमिति, तथा च तदन्यतरवत्त्वादित्यर्थः ; तथेति हेत्वन्तरसमुच्चये, समुच्चितमेव हेत्वन्तरमुल्लिखति - अनाप्तप्रणीतत्वादिति - यथार्थवाक्यार्थज्ञानवान् आप्तः तद्भिन्नोऽनाप्तः, यथार्थवाक्यार्थज्ञानविकल इति यावत्, तथाभूतपुरुष निर्मितत्वादित्यर्थः ; आगमत्वं प्रमाणशब्दत्वं, न युज्यते न संभवति, यथार्थवाक्यार्थज्ञानवत्पुरुषप्रवक्तृक शब्दत्वरूपस्य तल्लक्षणस्याभावात्, एवं चागमत्वस्यैवाभावे प्रतिपक्षागमत्वं सुतरां न तत्रेति न प्रतिपक्षागमबाधितत्वं जैनागमस्येत्याशयः ॥ २८ ॥ १४० ॥ , यद्यपि परदर्शनानामागमत्वाभावेऽनाप्तप्रणीतत्वमपि हेतुरुपन्यस्तोऽस्ति तथापि wwww
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy