SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः २३ अशुभादप्यनुष्ठानादिति-चौर्यादितः क्षुद्रदेवताविशेषमुद्दिश्यानुष्ठीयमानाद् भूतवधादितश्चेत्यर्थः, या क्वचित् सौख्यप्राप्तिश्च धनावाप्ति-पुत्राद्यवाप्तिजन्यसुखावाप्तिश्च लोकसिद्धा, सा विपाकविरसा निरुक्तसुखाप्तिरुत्तरकालेऽहितानुबन्धिनी, तथाविधकर्मणः अशुभानुबन्धिशुभकर्मणः प्राचीन पापानुबन्धिपुण्यकर्मण इति यावत् , फलं, न तु तदशुभस्यैव फलम् । ननु यदि प्राकृतस्यैव पापानुबन्धिपुण्यस्य फलं, तदेदानी चौर्यादेः क्षुद्रदेवतोद्देश्यकभूतवधादेरनाचरणेऽपि तत् स्यादेवेति तदाचरणमनर्थकमापन्नमिति चेत् ? नतथाभूतपापजनकव्यापारमपेक्ष्यैव प्राचीनपापानुबन्धिपुण्यस्योद्देश्यफलजनकत्वात् प्राचीनपापानुबन्धिपुण्यविपाकजनकतयेदानीन्तनचौर्यादिक्षुद्रदेवतोद्देश्यकभूतवधादिकर्मानुष्ठानस्यापेक्षणात् , यत एव प्रागनुष्ठितपापानुबन्धिपुण्यफलमेवैतत् तत एव चौर्याद्यनुष्ठायिनः क्षुद्रदेवतोद्देश्यकभूतवधाद्यनुष्ठायिनोऽपीदानीं क्वचिन्न भवत्यपि सौख्यदीति व्यभिचारेण तत्कर्मणस्तत्फलजनकत्वं नेत्येतदवगतये क्वचिदित्युक्तम् ; न च साङ्गे विहितकर्मणि सत्यवश्यं फलमिति नियमेनैहिकतत्तत्फलोद्देशेन विहितस्य तत्तत्कर्मणोऽङ्गादिलक्षणसहकारिविरहप्रयुक्तो व्यभिचारो न दोष इति वाच्यम् , साङ्गादपि पुढेष्ट्यादेः क्वचित् पुत्राद्यनुत्पाददर्शनात् , एतेन 'पुत्रोत्पत्तिप्रतिबन्धकादृष्टध्वंस एव पुत्रेष्ट्यादिफलं, न तु पुत्राद्युत्पत्तिः, सा तु प्रतिबन्धकाभावसहकृतदृष्टकारणसमाजादेवेति न दोषः' इति निरस्तम् , पुत्राद्युत्पत्तिप्रतिबन्धकादृष्टाभावस्य यथा पुत्राद्युत्पत्तौ कारणत्वं तथा कार्यमाने क्लुप्तकारणभावस्यादृष्टस्यापि तत्तत्कायें तत्तदनुकूलादृष्टत्वेन कारणत्वमिति प्रतिकुलकर्माभाववदनुकूलकर्मणोऽप्यवश्यमपेक्षणात् तद्विपाकार्थमेव तत्कर्मान्यथासिद्धेरित्याहुरुपाध्यायाः ॥ २६ ॥ १३८ ॥ अनन्तरोक्तार्थदााय निदर्शनमाहब्रह्महत्यानिदेशानुष्ठानाद् ग्रामादिलाभवत् । न पुनस्तत एवैतदागमादेव गम्यते ॥ २७ ॥ १३९ ॥ ब्रह्महत्येति-ब्रह्महत्यायाः-ब्राह्मणहननस्य, निदेशः-आज्ञा, सा च त्वं ब्राह्मण व्यापादय ततस्तुभ्यमहं ग्रामं दास्यामीत्येवंस्वरूपा, तदनुष्ठान-तद्विषयसम्पादनं, ब्रह्महत्याकरणमिति यावत् , तस्मादित्यर्थः; ग्रामादिलाभवत् ग्रामादिप्राप्तिवत् , स ग्रामादिलाभो यथा प्रागाचीर्णपापानुबन्धिपुण्यकर्मण एव
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy