________________
शास्त्रवार्तासमुच्चयः ।
[द्वितीयः इत्याह-क्वचिदिति-भरतादावित्यर्थः, तथोपलम्भेऽपि दुःखबाहुल्यदर्शनेऽपि, सर्वत्र महाविदेहादौ, अदर्शनात् दुःखबाहुल्यानुपलम्भात् , इतिशब्दो हेतुसमाप्त्यर्थः ॥ २४ ॥ १३६ ॥ पराभिप्रायमाशङ्कय परिहरतिसर्वत्र दर्शनं यस्य, तद्वाक्यात् किं न साधनम् । साधनं तद्भवत्येवमागमात् तु न भिद्यते ॥ २५ ॥ १३७ ॥
सर्वत्रेति-सर्वक्षेत्रेष्वित्यर्थः, दर्शनं दुःखबाहुल्यज्ञानं, यस्य सर्वज्ञादेः, तद्वाक्यात् सर्वज्ञादिवाक्याद् दुःखबाहुल्यप्रतिपादकाद् , दुःखबाहुल्यं ज्ञात्वा, साधनम् उक्तप्रसङ्गसाधनम् , किं न भवेत् ? किं न स्यात् ?, अपि तु तत आपाद्यव्यतिरेकनिश्चयादुक्तप्रसङ्गसाधनं स्यादेवेति चेत् ? अत्रोत्तरं-तत् साधनम् उक्तप्रसङ्गसाधनं, भवत्येव अवश्यं भवति, एवकारपाठो हरिभद्रसूरिसम्मतः, एवमिति पाठ उपाध्यायसम्मतः, एवमित्यस्य उक्तप्रकारेणेति व्याख्यानात् , आगमात् आगमप्रमाणात् , दुःखबाहुल्यादिप्रतिपादकसर्वज्ञादिवचनस्याऽऽगमत्वात् ततो ज्ञात्वा जायमानस्य प्रसङ्गसाधनस्य श्रुतानुसारिमत्यात्मकस्य श्रुतान्तर्भूतत्वात् , न भिद्यते न भिन्नं भवति ।
उक्तार्थसंवादायोपाध्यायरित्थमत्राभिहितम्-"अत एव भव्याभव्यादिभावानां पूर्व "तत्थ य अहेउवाओ भवियाऽभवियादओ भावा" [तत्र चाहेतुवादो भव्याभव्यादयो भावाः ] इति गाथाप्रतीकेनाहेतुवादविषयत्वमुक्त्त्वाऽपि "भविओ सम्मइंसण-नाण-चरित्त-पडिवत्तिसंपण्णो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवावस्स ॥ १ ॥ सम्मति गा० १४० ॥ [भव्यः सम्यग्दर्शन-ज्ञानचारित्र प्रतिपत्तिसम्पन्नः। नियमात् कृतदुःखान्त इति लक्षणं हेतुवादस्य ॥ इति संस्कृतम् ।] इति गाथयाऽनन्तरमागमोपगृहीतप्रवृत्त्या हेतुवादविषयत्वमुक्तं भगवता सम्मतिकृता, इत्यवधेयम्" इति ॥ २५ ॥ १३७ ॥
ननु शुभादेरेव कर्मणः सौख्यादीति नियमः कथमागमादपि प्रत्येयः?, लोके केषाञ्चिदशुभानुष्ठायिनामशुभादपि पापकर्मणः सकाशात् सुखोत्पाददर्शनेन व्यभिचारनिश्चयादित्यत आह
अशुभादप्यनुष्ठानात् , सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा, सा तथाविधकर्मणः ॥ २६ ॥१३८ ।।