________________
२१
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः प्रमाणं स्वाभीष्टप्रमेयसाधनायाऽऽश्रयतीति आगमेन वस्तु साधयत आगम एव श्रद्धा सिद्धा भवतीत्यागमे श्रद्धावन्त इति यावत् , इदं वक्ष्यमाणस्वरूपम् , ब्रवते कथयन्ति, किमित्यपेक्षायामाह-आगमेनेति।वै निश्चितम् , शुभादेरेव पुण्यकर्मादेरेव, सौख्यादि सौख्यादिफलं भवतीति आगमेनैव, गम्यते ज्ञायते, क्वचित् कुत्रापि, नान्यतः आगमभिन्नेन प्रमाणेन न गम्यते ॥ २२ ॥ १३४ ॥
आगमेनैव गम्यत इत्यत्र युक्तिमुपदर्शयतिअतीन्द्रियेषु भावेषु, प्राय एवंविधेषु यत् । छमस्थस्याविसंवादि, मानमन्यन्न विद्यते ॥ २३ ॥१३५॥ अतीन्द्रियेष्विति-ऐन्द्रियकक्षयोपशमाग्राह्येष्वित्यर्थः, भावेषु पदार्थेषु, प्रायः बाहुल्येन, एवंविधेषु शुभादेः सौख्यादीत्येवंप्रकारेषु, यत् यस्मात् कारणात् , छद्मस्थस्य अक्षीणघातिकर्मणोऽस्मदादेः, अविसंवादि इदमित्थमेवेति नियमवत् , अप्रामाण्यादिशङ्काविरहितमिति यावत् , अन्यत् आगमातिरिक्तम् ,मानं प्रमाणम् , न विद्यते नास्त्येव, प्रातिभादिप्रमाणेनागमातिरिक्तेनापि योगिभिरतीन्द्रियजातीयाः पदार्था गृह्यन्त इति प्रायः पदम् ।
अत्रोपाध्यायाः शिष्यबुद्धिवैशद्यायेत्थं मननं कृतवन्तः, तथाहि-"अत्र च यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तरानवगतवस्तुप्रतिपादकत्वेनाहेतुवादत्वम् , तथाऽप्यग्रे तदुपजीव्य प्रमाणप्रवृत्तौ हेतुवादत्वेऽपि न व्यवस्थाऽनुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाऽभिधानात् , अतो यदन्यत्रोक्तम्-"आगमश्चोपप्रत्तिश्च" इत्यादि तत् नानेन सह विरुध्यते, अपूर्वत्वं चादृष्टस्योपपद्यत इति ध्येयम्" इति ॥ २३ ॥ १३५ ॥
आगमनिरपेक्षयुक्तिमात्रेण शुभात् पुण्यमित्यादिव्यवस्थां कुर्वतां युक्तिं दूषयति
यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । क्वचित् तथोपलम्भेऽपि, सर्वत्रादर्शनादिति ॥ २४ ॥१३६॥
यच्चोक्तमिति-परैः शुभात् सौख्यसिद्धौ तर्कघटकत्वेनोक्तं यदपीत्यर्थः, किमुक्तमित्यपेक्षायामाह-दुःखबाहुल्यदर्शन मिति, तत् दुःखबाहुल्यदर्शनम्, साधकम् आपादकमपि, स्वतन्त्रसाधकत्वस्याभावात् , न नैव, कुतः?