SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २० शास्त्रवार्तासमुच्चयः । [द्वितीयः व्याधादयः, बहवः पुण्यकारिपुरुषापेक्षय, बहुसंख्याकाः, शुभकारिणः हिंसादिपापकर्मनिवृत्ताः साधुप्रभृतयः, विरलाः अशुभकार्यपेक्षयाऽल्पसंख्यकाः। अत्र तर्कस्वरूपमेवमुद्भावितमुपाध्यायैः-“एवं च सुखं यदि पापजन्यं स्यात् यावत्पापकर्तृवृत्ति स्यात् , दुःखं च यदि पुण्यजन्यं स्यात् पुण्यासमानाधिकरणं न स्यात् , इति तर्कशरीरं बोध्यम्" इति ॥ २० ॥ १३२ ॥ - आपाद्यमानं सुखबाहुल्यं यदि स्यादेव जगति तदा तदापादनमिष्टापादनमेवेति तर्काशुद्धिः स्यादतस्तद्विपर्ययोपदर्शनेन निरुक्ततर्कस्य शुद्धत्वमावेदयतिन चैतद् दृश्यते लोके, दुःखबाहुल्यदर्शनात् ।। शुभात् सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः ॥२१॥१३३॥ न चैतदिति । एतत् आपाद्यमानं सुखबाहुल्यं, लोके जगति, न च नैव, दृश्यते अनुभूयते, सुखविरोधिनो दुःखस्य बाहुल्यदर्शने सिद्धे एव सुखस्य तदपेक्षया बाहुल्योपलम्भाभावोऽनुभवकोटिमारोहेदित्यत आह-दुःख. बाहुल्यदर्शनादिति-दुःखस्य पुण्यासमानाधिकरणत्वदर्शनात् , यत्र यत्र पुण्यं नास्ति तत्र तत्र पुण्यानधिकरणे सर्वत्रैव पुंसि दुःखस्य दर्शनादित्यर्थः, इदमुपलक्षणं सुखे यावत्पापकर्तृवृत्तित्वाभावस्य, यत एवं ततः तस्मात् कारणात् , शुभात् पुण्यकर्मणः सकाशात् , सौख्यं सुखं भवति, सुखरूपकार्याल्पत्वेन तत्कारणस्य पुण्यकर्मणोऽल्पत्वस्य न्याय्यत्वात् , अतः सौख्यात् , अन्यद् भिन्नं, दुःखमिति यावत् , चापि अपीत्यनेन सुखं यथा शुभात् तथेत्यर्थोऽवबोध्यते, चकारः पुनरर्थकः, अतः पुण्यात् , अन्यतः पापात् , पुण्यभिन्नात् पापाद् दुःखं भवतीति, तथा च सुखकारणपुण्यमल्पसङ्ख्याकमिति सुखमल्पं, दुःखकारणं पापकर्म बहुसङ्ख्याकमिति तत्कार्य दुःखं बहुसङ्ख्याकमिति सिद्धमिति भावः ॥ २१ ॥ १३३ ॥ दर्शितस्यास्य स्वतन्त्रसाधनत्वाभावाद् विपर्ययपर्यवसानतयैवापादनस्य साधनाङ्गत्वेन साक्षात्साधनत्वं नास्तीत्यन्येषां वार्तान्तरमाह अन्ये पुनरिदं श्राद्धा, ब्रुवत आगमेन वै । शुभादेरेव सौख्यादि, गम्यते नान्यतः क्वचित् ॥२२॥१३४॥ अन्ये पुनरिति । श्राद्धाः श्रद्धावन्तः, यस्य यत्र प्रमाणे श्रद्धा स तदेव
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy