________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः पाकरणाय प्रतिपक्षागमनिराकरणं, किन्तु मध्य एवागमशरणार्थ प्रसङ्गाद् वार्तान्तरमुत्थापयति
अन्यस्त्वाहेह सिद्धेऽपि, हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि, केन मानेन गम्यते? ॥१८॥१३०॥ अन्यस्त्विति-अन्यो वादी पुनरित्यर्थः, आह कथयति, इह विचारकलोके, अथवा न्याये लोके च, सिद्धेऽपि प्रसिद्धेऽपि, हिंसादिभ्यः हिंसादिनिषिद्धकर्मभ्य एव, अशुभादिके नरकादिगतिपीडादिके, शुभादेरेव पुण्यकर्मादेरेव सकाशात् , सौख्यादि स्वर्गादि, दिव्यगन्धवस्त्रदिव्याङ्गनाद्युपभोगप्रभवसुखादि वा, भवतीति शेषः, एवकारेण न पापकर्मादेः सौख्यादिरिति गम्यते, इति एतत् , केन मानेन केन प्रमाणेन, गम्यते ज्ञायते, नात्र किञ्चिन्मानमित्यभिसन्धिः ॥ १८ ॥ १३० ॥ उक्तवार्ताप्रतिविधानवार्तामुपदर्शयतिअत्रापि ब्रुवते केचित् , सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या, किलैतदवसीयते ॥ १९ ॥ १३१॥
अत्रापीति-एवंविधपूर्वपक्षात्मकवार्तायामपीत्यर्थः, केचित् सूक्ष्मबुद्धिशालिनः, सर्वथा युक्तिवादिनः आगमनिरपेक्षयुक्तिमात्रकृतादराः, ब्रुवते कथयन्ति, किं कथयन्तीत्यपेक्षायामाह-प्रतीतिगर्भयेति-अनुभवसङ्गतया अनुभवसहकृतयेति यावत् , युक्त्या तर्केण, किल इति सत्ये, न त्वैतिह्ये, सत्यमेवे. त्यर्थः, एतत् शुभादेरेव सौख्यादीति, अवसीयते निश्चीयते ॥ १९॥ १३ ॥
तन्मतमेवोपदर्शयतितयाहु शुभात् सौख्यं, तद्बाहुल्यप्रसङ्गतः । बहवः पापकर्माणो, विरलाः शुभकारिणः ॥ २० ॥१३२॥ तयाहुरिति-ते आहुरित्यस्य सन्धिबलात् तयाहुरिति स्वरूपम् , ते आगमनिरपेक्षयुक्तिवादिनो वादिनः, आहुः ब्रुवते, यस्मात् अशुभात् पापकर्मणः सकाशात् , न सौख्यं दिव्याङ्गनाऽऽलिङ्गनादिप्रभवं सौख्यं न भवति, काऽत्र युक्तिरित्यपेक्षायामाह-तद्वाहुल्यप्रसङ्गत-इति सौख्यबाहुल्यप्रसङ्गादित्यर्थः, कस्मादेवमित्यपेक्षायामाह-बहव इति, पापकर्माणः हिंसादिपापकर्मनिरता