________________
१८ शास्त्रवार्तासमुच्चयः।
[द्वितीयः भूतस्य वढेरम्यथासिद्धत्वान्न तजनकत्वम् , नवा तदनुरोधेन शीतस्वभावत्वम् , प्रकृतेऽप्येवं व्यवस्था भावनीया, अथैवं कारणत्वस्य स्वाभाविकत्वे नीलादिवत् साधारण्यं स्यादिति चेत् ? स्यादेव, सर्वैस्तत्त्वेन प्रतीयमानत्वरूपम् , अन्यग्रहानधीनग्रह विषयत्वरूपमपि तद्धेतुशक्तावस्त्येव, व्यञ्जकस्वभावे त्वन्यघटितस्वादेव नास्ति; न च परापेक्षत्वादलीकत्वापत्तिः, तथानियमाभावात् , अभ्यधिष्महि च भाषारहस्ये
"ते होंति परावेक्खा, वंजयमुहदंसिणो त्ति ण य तुच्छा। दिमिणं वेचित्तं, सराव-कप्पूरगंधाणं ॥ ३० ॥" इति, "ते भवन्ति परापेक्षा व्याकमुखदर्शिन इति न च तुच्छाः ।
दृष्टमिदं वैचित्र्यं शरावकर्पूरगन्धयोः ॥ १ ॥” इति संस्कृतम् ॥ संवादयन्ति चामुमर्थ प्रश्न-प्रतिविधानाभ्यामुदयनाचार्याः, तथाहि-नन्धेतत् कारणत्वं यदि स्वभावो भावस्य नीलादिवत् तदा सर्वसाधारण स्यात् , नहि नीलं किञ्चित् प्रत्यनीलम् , अथौपाधिक, तदा उपाधेरपि स्वाभाविकत्वे तथात्वप्रसङ्गः,
औपाधिकरवे त्वनवस्था, असाधारणत्वमप्यस्य स्वभाव एव, तत उत्पत्तरारभ्य कुर्यात् , स्थिरस्यैकस्वभावत्वादिति चेत् ? उच्यते
"हेतुशक्तिमनादृत्य, नीलाद्यपि न वस्तु सत् ।
तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम्? ॥ १ ॥" सर्वसाधारणनीलादिवैधर्येण कार्यकारणभावस्य काल्पनिकत्वं व्यवस्थापयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम् , अन्यथा तद्वैधर्येण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः, न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् , तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, नवोभयमपीति, कथमेकमने परस्परविरुद्ध कार्य कुर्यात् ; तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषादित्यपि न युक्तं, तत्तत्सहकारिसाचिव्ये तत्तत्कार्य करोतीति स्वभावव्यवस्थापनात् , इदं च साधारणमेव, सर्वैरेव तथोपलम्भात् , न नीलादेरप्यन्यत् साधारण्यमिति ॥ १७ ॥ १२९ ॥
स्वभावस्य प्रतिपक्षस्वभावबाधितत्वम् , आगमस्य च प्रतिपक्षागमबाधितत्वं यत् पराभिप्रेतं तत्र प्रतिपक्षस्वभाव निराकरणेन स्वभावस्य प्रतिपक्षस्वभावबाधितत्वमपहस्तितम् , तदनन्तरमवसरप्राप्तमागमस्य प्रतिपक्षागमबाधितत्वा