________________
१७
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः न किम् ? किं न स्वभावः?, हिमसन्निधावेव शीतकार्यरोमाञ्चादिजनकत्वस्वभाव इत्यर्थः ॥ १५ ॥ १२७ ॥ उक्तपराभिप्रायमाचार्योऽपहस्तयतिव्यवस्थाभावतो ह्येवं, या त्वबुद्धिरिहेदृशी । सा लोटादस्य यत् कार्य, तत्त्वतस्तत्स्वभावतः॥१६॥१२८॥ व्यवस्थाभावतो हीति । एवं उक्तप्रकारेण, व्यवस्थाभावतः सम्यग् नियामकाभावात् सर्वत्र अस्यैवायं स्वभाव इति नियमात् , हि निश्चितम् , एतदपि स्यात् , यदुत-या इह विचारे, ईदृशी स्वभावान्यथात्वप्रकल्पनात्मिका, त्वद्बुद्धिः सा लोष्टात् पाषाणादेव, समुत्पन्नेति दृश्य, यतः, त्वत्समीपस्थे लोष्ठे स्वत्स्वभावस्येदृशबुद्धिजनकत्वस्य संक्रमात् , एवमभ्युपगमे सति यदा त्वत्सामीप्यं लोष्टे नास्ति तदा ततो नेशबुद्धिसमुत्पत्तिः, त्वत्सामीप्ये सति ईदृशबुद्धिजनकत्वं स्वभावः पाषाणस्य किं न स्यात् , तथा अस्य लोष्टस्य, यत् कार्यम् अभिघातादिकम् , तत् अभिघातादि कार्य, त्वत्तः तव सकाशात् स्यात् , तत्स्वभावतः लोष्टसमीपस्थस्य तव लोष्टस्वभावात् , तत एव लोष्टसामीप्याभावे स्वत्तस्तत्कार्यानुत्पत्तिसम्भवात् ॥ १६ ॥ १२८ ॥ यदि नामैवं ततः किमित्यत आह-' एवं सुबुद्धिशून्यत्वं, भवतोऽपि प्रसज्यते ।
अस्तु चेत् को विवादो नो, बुद्धिशून्येन सर्वथा ॥१७॥१२९॥ ..एवमिति-उक्तप्रकारेण भवतो लोष्टस्वभावप्रसक्तावित्यर्थः । भवतोऽपि तवापि, अपिना यथा लोष्टस्य सुबुद्धिशून्यत्वं तथेत्यर्थः परिगृहीतो भवति, सुबुद्धिशून्यत्वं सम्यग्बुद्धिरहितत्वम् , प्रसज्यते मापद्यते, तथा अपिना लोष्टस्यापि त्वत्सामीप्ये त्वत्स्वभावसङ्कमाद् बुद्धियुक्तत्वमापद्यत इत्यर्थः समुच्चीयते। परोऽवेष्टापत्तिं शङ्कते-अस्तु चेदिति-न्यायप्राप्तं तथास्वभावत्वमस्तु का नो हानिरिति चेदित्यर्थः, तदा नः अस्माकम् , बुद्धिशून्येन सर्वथालोष्टस्वभावसंक्रान्त्या बुद्धिरहितेन भवता समं को विवादः न कश्चिद् विवादः, चेतनस्याचेतनेन समं विवदासम्भवात् । अत्र व्यवस्था श्रीमद्भिर्यशोविजयोपाध्यायैरित्थं भाविताएवं चावश्यक्लप्तनियतपूर्ववर्तिनो हिमादेरेव रोमाञ्चादिकार्यसम्भवे तत्सह
२ शास्त्र०स०द्वि०