________________
शास्त्रवार्तासमुच्चयः।
[द्वितीयः धर्मजनकत्वादिस्वभावः स्याद्धर्मजनकत्वादिस्वभावोऽपि स्यादित्येवं जात्याऽऽपाद्यमानोऽपि हिंसादेर्धर्मजनकत्वस्वभावोऽनुभवेन प्रमाणेन च बाधितत्वान्न घटत इति न बाधकमित्याशयः॥ १३ ॥ १२५ ॥ अत्र पराभिप्राय प्रतिक्षेप्तुं प्रश्नोत्तरभावेनोपदर्शयतिवढेः शीतत्वमस्त्येव, तत्कार्य किं न दृश्यते । दृश्यते हि हिमासन्ने, कथमित्थं स्वभावतः॥ १४ ॥१२६ ॥ वह्नः शीतत्वमस्त्येवेति-मरुमरीचिकायां जलप्रतीतिलक्षणमृगतृष्णकादिर्यथा स्वभावतः, यतो मरुमरीचिकायामिवान्यदेशस्थमरीचिकायां जलभ्रान्तिः कथं न भवतीति वक्तुं न शक्यते तथा वह्नेः शीतत्वं स्वाभाविकमेवास्तीत्यर्थः । इत्थं परेणाभिहिते तदभिप्रायावगमाय समाधाता पृच्छतितत्कार्य किं न दृश्यते? इति-स्वाभाविकशीतत्ववजलसङ्गेन रोमाञ्चाविभीवादिकं यथा दृश्यते तथा स्वाभाविकशीतत्ववद्वह्निसम्बन्धेन शीतत्वकार्य रोमाञ्चादिकं किं न दृश्यत इत्यर्थः । अत्र पर उत्तरयति-दृश्यते हि हिमासन्न इति-हि निश्चितम् , हिमसान्निध्यमुपगते वह्नौ शीतकार्य रोमाञ्चादि दृश्यत इत्यर्थः । तत्राचार्यः पृच्छति-कथमित्थमिति-हिमसन्निधानकाल एव वह्निः शीतकार्य करोति नान्यदेति कथमित्यर्थः । अत्र पर उत्तरयति-स्वभावत इतियथा दण्डादेश्वक्रादिसहकारिकलापसमवहितस्यैव घटादिकार्यजनकत्वस्वभावस्तथा 'हिमसन्निधानप्राप्तस्यैव वह्नः शीतकार्यरोमाञ्चादिजनकत्वस्वभाव इति नान्यदा रोमाञ्चादिकं करोतीत्यर्थः ॥ १४ ॥ १२६ ॥ उक्तमेवार्थ दृष्टान्तावष्टम्भेन द्रढयतिहिमस्यापि स्वभावोऽयं, नियमाद् वह्निसंनिधौ। करोति दाहमित्येवं, वह्नयादेः शीतता न किम् ॥१५॥१२७।। हिमस्यापि स्वभाव इति । अयम् एवम्भूत एव, यत् नियमात् अवश्यम्भावतः, वह्निसन्निधौ वह्निसन्निधान एव, दाहं करोति यथाऽयस्कान्तमणिः सन्निधान एव लोहस्याकर्षणं करोति, नागदमन्यभिध औषधविशेषः सन्निधान एव नागदमनकार्य करोति, इति एतस्मात् कारणात् , एवं यथा हिमस्य वह्निसन्निधौ दाहजनकत्वं स्वभावः, तथा, वह्नयादेः शीतता