SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः www मीमांसकोsपि " मा हिंस्यात् सर्वा भूतानि” इति जीवमात्र हिंसा निषेधक श्रुतेः सामान्यशास्त्रत्वमुररीकृत्य सामान्य शास्त्राद् विशेषशास्त्रं बलवत्, “सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेद्” इति वचनात् " अग्नीषोमीयं पशुमालभेत” [ ] " वायव्यं श्वेतं छागमालभेत " [ ] इति श्रुतिबलाद् यागीय हिंसाऽधर्मजनकहिंसा न भवतीति यागीयहिंसाया अधर्मजनकत्वाभावे दर्शितवेदवाक्यमेव प्रमाणत्वेनाभ्युपगच्छतीति ॥ ११ ॥ १२३ ॥ wwww १५ परः पृच्छति — प्रतिपक्षस्वभावेन, प्रतिपक्षागमेन च । बाधितत्वात् कथं ह्येतौ शरणं युक्तिवादिनाम् ॥ १२ ॥ १२४ ॥ प्रतिपक्षस्वभावेनेति पूर्वोक्तस्वभावविपरीतस्वभावेनेत्यर्थः, अस्य बाधि तत्वादित्यनेनान्वयः, प्रतिपक्षागमेन च उक्तागमविपरीतागमेन च, बाधितत्वात् पूर्वोपदर्शितस्वभावस्य पूर्वोपदर्शितागमस्य च बाधितत्वात्, हि निश्चितम् एतौ अनन्तरोपदर्शितस्वभावागमौ युक्तिवादिनां वस्तुसाधनाय प्रधानतया युक्तिमेव पुरस्कुर्वताम्, न तु श्रद्धामात्रेण स्वभावागमौ शरणी - कुर्वताम्, कथं शरणं कथमर्थसाधनप्रगल्भौ, न कथमपीत्याशयः ॥ १२ ॥ १२४॥ उत्तरयति - प्रतीत्या बाध्यते यो यत्, स्वभावो न स युज्यते । वस्तुनः कल्प्यमानोऽपि, वह्न्यादेः शीततादिवत् ॥ १३ ॥ १२५॥ प्रतीत्येति - अनुभवेन प्रमाणेन चेत्यर्थः यः स्वभावः, यत् यस्मात् कारणात्, बाध्यते, स बाधितः स्वभावः, कल्प्यमानोऽपि तत्स्वभावत्वेन कल्प्यमानोऽपि, असदुत्तरलक्षणजात्याऽऽपाद्यमानोऽपीति यावत्, वह्नयादेः शीततादिवत् यथा वह्नयादेर्जात्याssपाद्यमानोऽपि शीततादिस्तत्स्वभावत्वेन, वह्नयादिस्वभावो न युज्यते तथेत्यर्थः, जात्युत्तरं च प्रतिबन्द्येत्थमत्र प्रवर्ततेवयादेर्यद्युष्णतादिस्वभावः स्यात्, शीतत्वाद्यपि वह्नयादेः स्वभावः स्यात्, वह्न्यादावुष्णत्वादिकमेवानुभूयते न शीतत्वादिकम् वह्वयादेरुष्णत्वादिकमेव प्रत्यक्षप्रमाणेन विषयीक्रियते न शीतत्वादिकमित्यनुभवबाधितत्वात् प्रत्यक्षप्रमाणबाधितत्वाच्च शीतत्वादिकं न वह्वयादेः स्वभावो घटते, तथा हिंसादिर्यद्य " ,
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy