________________
शास्त्रवार्तासमुच्चयः।
[ द्वितीयः
पुण्य-पापाभ्यां हिंसास्तेयादिपरिणतः पापकर्मणा बध्यते, अहिंसाऽस्तेयादिपरिणतः पुण्यकर्मणा बध्यते, माध्यस्थ्यात् तु सामायिकपरिणामाद् वैराग्यादिति यावत्, पुनः विमुच्यते कर्मणा विमुक्तो भवति, स्वभावान्नियमश्च परेणाप्यभ्युपगन्तव्यः, कथमन्यथा दण्डादेरेव घटजनकत्वं न वेमादेः, यथा च पर्वते वह्निः कुत इति प्रश्नो ज्ञापकहेतुजिज्ञासया समुपजायते, तत्र धूमादित्युत्तरमुपतिष्ठते, तथा दण्डादेरेव घटादिजनकत्वं न वेमादेरिति कुत इति प्रश्नो ज्ञापकहेतुजिज्ञासया समुपजायते, स्वभावादिति तत्रोत्तरम्, तेन चोक्तजिज्ञासानिवृत्त्या न पुनरुक्तप्रभावतारः । व्याघातेन च शङ्काया अनुदयादेव कुतोऽयमस्यैव स्वभाव इति प्रश्नो न स्वभावे भवतीति ॥ १० ॥ १२२ ॥
सर्वेऽपि वादिनः स्वपक्षसाधनार्थं सर्वतः प्रबलत्वेन स्वभावाऽऽगमावन्तेऽङ्गीकुर्वन्त्येवेत्युपदर्शयति
सुदूरमपि गत्वेह, विहितासू पपत्तिषु ।
कः स्वभावा ऽऽगमावन्ते, शरणं न प्रपद्यते १ ॥ ११ ॥ १२३ ॥ सुदूरमपीति । इह शास्त्रे, सुदूरमपि गत्वा वह्नयनुमानादीनि प्रमाणान्याश्रित्यापि उपपत्तिषु युक्तिषु सूक्ष्मबुद्धयुपनीतेषु, विहितासु स्पष्टं परबुद्धिगम्यासु कृतासु, कः वादी, अन्ते परेण बाधकतकपन्यासतः सूक्ष्मयुक्तीनां श्लथीकरणे, स्वभावा ऽऽगमौ स्वभावपक्षमागमप्रमाणं च शरणं न प्रपद्यते ? नेति काक्वा सर्व एव वादी स्वपक्षसाधनार्थं बलवत्वेन शरणं प्रपद्यते, गत्यन्तराभावादित्यर्थः । यथा बौद्धः- तत्तत्प्रतिनियतकार्ये तत्तत्कारणस्य तत्तत्कार्योत्पत्तिक्षणेऽसतोऽपि तथाभूतादकारणक्षणाद् वैलक्षण्यान्तराभावेऽपि स्वहेतोरेव क्षणस्थितिधर्माज्जातः स एव तत्कुर्वद्रूपस्वभावोऽतस्तत्कारणं नान्ये इति तत्कार्यस्याप्यन्यानन्तरक्षणभावित्वाविशेषेऽपि तत्कार्यत्वमेव नान्य कार्यत्वमित्येवं स्वभावमेव स्वपक्षसाधनायाऽऽश्रयति । बौद्ध विशेषोऽपि कश्चिदहेतुकस्य कार्यस्य स्वाभ्युपगतस्य स्वभावेनैव कादाचित्कत्वं समर्थयति, यदुक्तं
१४
" नित्यसत्त्वा भवन्त्येके, नित्यासत्वाश्व केचन ।
विचित्राः केचिदित्यत्र, तत्स्वभावो नियामकः ॥ १ ॥
वह्निरुष्णो जलं शीतं, समस्पर्शस्तथाऽनिलः ।
केनेदं रचितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥ २ ॥" [ ] इति ॥