SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः ज्ञानमपेक्षते, प्रतियोगिनिरूपणाधीननिरूपणत्वात् , तदभावनिरूपणस्य च विषयनिरूप्यत्वात्" इति प्राहुः ॥ ७ ॥ ११९ ॥ निगमयतितस्माद् यथोदितात् सम्यगागमाख्यात् प्रमाणतः । हिंसादिभ्योऽशुभादीनि, नियमोऽयं व्यवस्थितः ॥८॥१२०॥ तस्मादिति-उक्तयुक्तरित्यर्थः, यथोदितात् प्रमाणान्तरतया समर्थितात् , सम्यगागमाख्यात् आप्तोक्तशब्दसंज्ञकात् , प्रमाणतः, हिंसादिभ्यः हिंसाऽनृत-स्तेया-ऽब्रह्म-परिग्रहेभ्यः, अहिंसा-सत्या-ऽस्तय-ब्रह्मा-ऽपरिग्रहेभ्यश्च, अशुभादीनि आदिपदाच्छुभादीनि, बहुवचनसामर्थ्याद् दुःखसुखादयो गृह्यन्ते, अयं नियमः अनन्तरमुपदर्शितो नियतहेतु-हेतुमद्भावः, व्यवस्थितः प्रतिष्ठितः ॥ ८ ॥ १२० ॥ एतदेव विशिष्योपदर्शयतिक्लिष्टाद्धिंसाद्यनुष्ठानात् , प्राप्तिः क्लिष्टस्य कर्मणः। यथाऽपथ्यभुजी व्याधेरक्लिष्टस्य विपर्ययात् ॥९॥ १२१ ॥ क्लिष्टादिति-संक्लेशबहुलादित्यर्थः, हिंसाधनुष्ठानात् हिंसाद्याचरणात् , क्लिष्टस्य कर्मणः ज्ञानावरणीयादिप्रकृतिकस्य कर्मणः, प्राप्तिः आत्मना सह सम्बन्धः, भवतीति क्रियासम्बन्धः । उक्तमर्थं दृष्टान्तावष्टम्भेन समर्थयतियथेति, अपथ्यभुजः तत्तद्वयाधिविवृद्धिनिमित्ताहारग्रहणलम्पटस्य रोगिणः, व्याधेः रोगस्य, प्राप्तिरित्यनुषज्यते, तथा, विपर्ययात् अक्लिष्टादहिंसाद्यनुष्ठानात् , अक्लिष्टस्य कर्मणः सातवेदनीयादिशुभप्रकृतिकस्य कर्मणः, प्राप्तिर्भवतीति सम्बन्धनीयम् , अत्र निदर्शनं व्याधिविवृद्धयनिमित्तपथ्यभोजिनो व्याध्यपगमात् सुखाप्तिर्यथेति ॥ ९॥ १२१ ॥ आगमप्रमाणतो नियम व्यवस्थाप्य स्वभावतस्तं व्यवस्थापयतिखभाव एष जीवस्य, यत् तथापरिणामभाक् । बध्यते पुण्य-पापाभ्यां, माध्यस्थ्यात् तु विमुच्यते॥१०॥१२२॥ खभाव इति। जीवस्य चेतनस्य, एषः अनन्तरमेवाभिधीयमानः स्वभावः, यत् यस्मात् स्वभावात् , तथापरिणामभाक, हिंसादिपरिणामभाक् , बध्यते
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy