________________
शास्त्रवार्तासमुच्चयः।
[द्वितीयः
च तदभावात् , कथमेष निश्चयः साकाङ्क्ष एव प्रत्येति न तु ज्ञाताकाङ्क्ष इति चेत् ? तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनानुपपत्तेः, अन्यत्र तथा दर्शनाच्च, यदा हि दूरादृष्टसामान्यो जिज्ञासते-कोऽयमिति, प्रत्यासीद॑श्च स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति, तथेहाप्यविशेषात् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासाऽवगतिरिति, न च विशेषोपस्थानात् प्रागेव जिज्ञासाऽवगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षत्वात् , न चैवम्भूतोऽप्ययमैका. न्तिको हेतुः, यदा हि अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेन 'अयमेति पुत्रः' इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति तदाऽस्त्याकाङ्क्षादिमत्त्वे सति पदकदम्बत्वं, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति, स्यादेतत् , यावत्समभिष्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणासंस्पर्शात् , कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः ? अलिङ्ग एव लिङ्गत्वाध्यारोपात्, एतावानेवायं समभिव्याहार इति श्रोतुरभिमानः, न-तत्संदेहेऽपि श्रुतानुरूपसंसर्गावगमात् , भवति हि तत्र प्रत्ययो न जाने किमपरमनेनोक्तम् , एतावदेव श्रुतं-यद्राज्ञः पुरुषोऽपसार्यतामिति, भ्रान्तिरसाविति चेत् ? न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् , न लिङ्गाभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात् , एता. दृक्पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् ? यद्येतदेवादुष्टं सदभ्रान्ति जनयत् केन वारणीयम् , व्याप्तिप्रतिसन्धानं विनाऽपि तस्य संसर्गप्रत्यये साम
•वधारणात् , चक्षुरादिप्रत्ययवत् ; नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत् ? तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् ; असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत् ? एवं तर्हि संसर्गो न सिध्येत् ; आप्तवाक्येषु सेत्स्यतीति चेत् ? न-सर्वविषयाप्तत्वस्यासिद्धेः, यत्र क्वचिदासत्वस्यानैकान्तिकत्वात्। प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्ध्यभ्युपगमादित्युक्तम् , न च सर्वत्र जिज्ञासा निबन्धनम् , अजिज्ञासोरपि वाक्यार्थप्रत्ययात् , आकाङ्क्षापदार्थस्तर्हि कः ? जिज्ञासां प्रति योग्यता, सा च स्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, न चैषोऽपि