________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः मात्रमिहाप्तशब्देन विवक्षितम् , तदुक्तेरपि पदार्थसंसर्गव्यभिचारात् , अपि तु तदनुभवप्रामाण्यमपि, न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम् , भ्रान्तेः पुरुषधर्मत्वात् , यत्र क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमाप्त इति केनचिदुपायेन ग्राह्यम् , न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् , बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात् , पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित् , अनाप्तसाधारण्यात् , एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ? न-एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः, अननुभूतचरे स्मरणायोगात् , तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति; नापि द्वितीयः-योग्यतामात्र सिद्धावपि संसर्गानिश्चयात् , वाक्यस्य च तदेकफलत्वात् , योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुः स्यात् , तथा चाग्निना सिञ्चदित्यादिना स्मारितैरनैकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति । द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति, तत्र केयमाकाङ्क्षा नाम? , न तावद्विशेष्यविशेषणभावः, तस्य संसर्गस्वभावतया साध्यत्वात् , नापि तद्योग्यता, योग्यतयैव गतार्थत्वात् , नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् ; तंत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावोऽस्तीति चेत् ? न-अहो विमलं जलं नद्याः कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् , नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् , गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येषैव पदस्मारितविषया न तु किंरूप इत्यादिरपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यादिति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान्-किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् , आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकः, अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात् , द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते, न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् , निवृत्ताकाङ्क्षस्य