SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Www शास्त्रवार्तासमुच्चयः। [द्वितीयः तु पृथक्त्वे, न च तत् सम्भवत्यपि पृथक्त्ववतः सावधिकत्वाभावात् , वस्तुतोऽनुमितिस्थले अनुमिनोमीत्यनुव्यवसायो भवति, शाब्दस्थले च नानुमिनोमीत्यनुव्यवसायः किन्तु शाब्दयामीत्यनुव्यवसायवैलक्षण्याद् विषयताविशेषसिद्धया शाब्दस्यानुमितितो भेद इति; न च शाब्दानुमित्योभैंदे यदोभयसामग्रीसमवधानं तदा युगपज्ज्ञानद्वयोत्पत्तिर्न भवतीति नियमेनैकमेव ज्ञानं भवितुमर्हति, तदर्थमेकसामग्र्या अपरत्र प्रतिबन्धकत्वं कल्पनीयमिति गौरवम् , शाब्दमतेरनुमितावन्तीवे तु सामग्रीद्वयसमाजात् समूहालम्बनाल्मिकैकैवानुमितिरुत्पद्यत इति न प्रतिबन्धकत्वकल्पनमिति लाघवमिति वाच्य, यत्र वह्नयादेरशाब्दानुमितेः सामग्री घटादेश्च शाब्दानुमितेः सामग्री, तदा तयोरेकदोत्पत्तिवारणाय तवापिशाब्दानुमितिसामग्र्या अशाब्दानुमितिं प्रति प्रतिबन्धकत्वकल्पनस्यावश्यकत्वादिति । उदयनाचार्यास्तु-"शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि-यद्यप्येते पदार्था मिथःसंसर्गवन्तो वाक्यत्वादिति व्यधिकरणम् , पदार्थत्वादिति चानैकान्तिकम् , पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः, नत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति, ज्ञाप्यज्ञापकभावस्तु स्वातत्रयेणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वं, यल्लिङ्गस्य विषयस्तदेव तस्य परस्पराश्रयणप्रसङ्गात् , तदुपलम्भे हि व्याप्तिसिद्धिस्तसिद्धौ च तदनुमानमिति, तथाप्याकाङ्खादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् , न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् , यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत् ; न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः, तस्य च संसृज्यमानस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति; अत्रोच्यते अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः । आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिरबन्धना ॥ १ ॥ एते पदार्था मिथःसंसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः, सम्भावितसंसर्गा इति वा, न.प्रथमः-अनाप्तपदकदम्बस्मारितैरनैकान्तात् , आप्तोक्त्या विशेषणीयमिति चेत् ? न-वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः, नाविप्रलम्भकत्व
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy