________________
स्तबकः ]
स्याद्वादवाटिका टीका सङ्कलितः
न व्यभिचारः; न च ' एते पदार्थास्तात्पर्यविषय मिथः संसर्गवन्तः' इत्यनुमानेन कर्मत्वादिरूपपदार्थे घटादिरूपपदार्थस्य संसर्गसिद्धावपि कर्मत्वादिविशेष्यक निरूपितत्वादिसम्बन्धेन घटदिप्रकारकबोधलक्षगोऽन्वयबोधो घटमानयेति वाक्यजन्यो योऽभिमतः स न जात इति वाच्यं, कर्मत्वादिकं घटादिमत् घटाकाङ्क्षादिमत्पदस्मारितत्वादित्यनुमानस्यापि सम्भवादिति चेत् ? न घटमानयेति वाक्याद् घटकर्मकानयनानुकूलकृति प्रकारक संबोध्यपुरुषविशेष्यकबोधः प्रतिनियतो यः समुद्भवति तस्यानुमानादनुत्पत्तेः, शाब्दात्मक विलक्षणानुमितौ नामार्थयोरभेदसम्बन्धेनैवान्वय इत्यादिव्युत्पत्तेरपि तत्रत्वान्न दोष इति चेत् ? न - स्यन्तनीलादिपदसमभिव्याहृतस्यन्तघटपदादिज्ञानम् अभेदसम्बन्धेन नीलादिप्रकारकघटादिविशेष्य कान्वयबोधं प्रति कारणमित्येवं शब्दविशेषाकाङ्क्षाज्ञानशाब्दविशेषकार्यकारणभावलक्षणाया व्युत्पत्तेः पदस्य शाब्द हेतुत्वगर्भत्वात् व्युत्पत्तेः शाब्दात्मकविलक्षणानुमितिहेतुत्वे पदज्ञानस्य शाब्दबोधकारणत्वमभ्युपगतमेवेति नानुमितिरूपता तस्येति; किञ्च सिषाधयिषाया असत्त्वे सिद्धिसत्त्वेऽनुमितिर्न भवतीति सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षताया अनुमितिकारणत्वमभ्युपगतं, तथा च शाब्दबोधस्याप्यनुमितिरूपत्वे तत्रापि निरुक्तपक्षता कारणमिति प्रत्यक्षादिना सिद्धावपि विनैवेच्छां शाब्दबोधो न जायेत; न च तत्तल्लिङ्गकानुमितौ तत्तलिङ्गकानुमितीच्छा विरहविशिष्टसिद्ध्यभावः कारणमित्येवं विशिष्यैवानुमितिं प्रति निरुक्तपक्षतायाः कारणत्वं न तु सामान्यतोऽनुमितिपक्षत्वयोः कार्यकारणभाव:, तथा चाकाङ्क्षादिमत्पदस्मारितत्वादिलिङ्गकतात्पर्यविषय मिथ:संसर्गवत्त्वादिसाध्य कानुमितौ पक्षता न कारणमितीच्छां विना प्रत्यक्षादिना सिद्धिसत्त्वे निरुक्तानुमितिलक्षणशब्दबोधः स्यादेवेति वाच्यं, तथाऽपि नीलो घट इत्यादिवाक्यान्नीलाभिन्नघटबोधान्तरं पुनर्नीलाभिन्नघटबोधस्य वारणाय तल्लिङ्गकतदनुमितौ तल्लिङ्गकतदनुमित्यभावस्य कारणत्वापेक्षया घटपदजन्यशाब्दबोधे घटपदजन्य शाब्दबोधस्य प्रतिबन्धकत्वे लाघवादतिरिक्तशाब्दसिद्धेः; एवं पदजन्यविशिष्टवैशिष्ट्यबोधे पदजन्यविशेषणतावच्छेदकप्रकारकज्ञानहेतुत्वादिनाऽपि तत्सिद्धिः अपि च घटात् पृथगिति वाक्याद् घटावधिकपृथक्त्ववानित्यन्वयबोधलक्षणः शाब्दबोधो भवति, तादृशशाब्दबोधसमानाकारानुमितिस्तु न संभवति, पृथक्त्वं घटावधिकमित्यनुमितौ पृथक्त्ववतोऽभानापत्तेः, यदि च पृथक्त्ववत्पक्षकानुमितिस्तत्रोपेयते तदा तत्रैव पञ्चम्यर्थस्यावधिकत्वस्यान्वयः स्यान्न
S