SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः विशिष्यते” इति वदतां सम्मतिटीकाकृतामाशयः । शाब्दज्ञानस्यानुमित्यात्मकत्वमुपेत्य शब्दप्रमाणस्यानुमानेऽन्तर्भावनमपि वैशेषिकाणां न युक्तम् , तथाहिएते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्त आकाङ्क्षादिमत्पदस्मारितत्वात् 'दण्डेन गामभ्याज' इति पदस्मारितपदार्थवत् , इति न शाब्दस्थलीयानुमानशरीरम् , अनाप्तोक्तपदस्मारिते पदार्थे तात्पर्य विषयमिथःसंसर्गवत्त्वं नास्ति, आकाङ्गादिमत्पदस्मारितत्वमस्तीत्येवं व्यभिचारेणोक्तहेतोरगमकत्वात् , अथातोक्ताकाङ्गादिमत्पदस्मारितत्वं हेतुः क्रियते, तत्र न व्यभिचार इति चेत् ? न-वाक्यात् पदार्थान्वयबोधतः संवादिप्रवृत्तितस्तजनकज्ञानस्य प्रमात्वनिर्णयानन्तरं प्रमात्मकज्ञानजनकवाक्यजनकयथार्थज्ञानवत्त्वलक्षणाप्तत्वविशिष्टपुरुषोच्चरितत्वज्ञानं सम्भवति नान्यथेत्याप्तोक्तत्वस्याप्तोच्चरितत्वस्य च पूर्व दुर्ग्रहत्वात् , अत एवायोग्यार्थकपदस्मारिते व्यभिचारवारणाय योग्यताया एकपदार्थेऽपरपदार्थवत्वलक्षणाया हेतौ निवेशनीयतया तस्या अपि अन्वयबोधात् प्रागनिश्चयात्, अनुमित्यात्मकशाब्दबोधात् प्राक् निरुक्तयोग्यताया निश्चये वा तन्निश्चयस्य प्रकृतसाध्यसिद्धिरूपत्वेनानुमितिप्रतिबन्धकतयाऽनुमित्यात्मकशाब्दबोधोत्पत्त्यसम्भवात् ; अनुमितौ हेतुनिश्चयस्य कारणत्वेन यज्ज्ञानमेव शाब्दबोधोपयोगि तदेव हेतुघटकतयोपादातुं शक्यमिति समभिव्याहृतपदस्मारितार्थजिज्ञासारूपाऽऽकाका स्वरूपसत्येव कारणं, न तु ज्ञातेति तस्या हेतुघटकतयोपादानासम्भवात् , हेतावाकाङ्क्षामनिवेश्य योग्यतासत्तिमत्पदस्मारितत्वादित्येवं हेतुकरणमपि न युक्तम् , 'अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यताम्' इत्यत्र राज-पुत्रयोरन्वय एव तात्पर्यविषयो न तु राज-पुरुषयोरिति तत्र 'राज्ञः पुरुषः' इति भागे योग्यतासत्तिमत्पदस्मारितत्वमस्ति तात्पर्यविषयमिथःसंसर्गवत्त्वं नास्तीति व्यभिचारात्, स्वरूपसत्या एव निरुक्ताकाङ्क्षाया हेतुत्वेन ‘राज्ञः पुरुषः' इति भागे व्यभिचारेण च 'एतानि पदानि तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि, आकाङ्खादिमत्पदकदम्बत्वात्' इत्यनुमानशरीरे एकपदार्थेऽपरपदार्थवत्त्वरूपयोग्यताया हेतुविशेषणत्वेऽपि एकपदार्थेऽपरपदार्थवत्त्वरूपयोग्यताज्ञानं न पदकदम्बविशेष्यकतात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकत्वप्रकारकज्ञानलक्षणानुमितिसमानविषयकमिति न सिद्धसाधनमित्युक्तावपि न निस्तारः; अथ तात्पर्यरूपाऽऽकाव हेतुप्रविष्टा, तात्पर्यज्ञानं च शाब्दबोधे कारणमिष्यत एवेति नाकाङ्क्षाज्ञानाहेतुत्वनिबन्धनो दोषः, 'राज्ञः पुरुषः' इति भागे च न तात्पर्यादिमत्पदस्मारितत्वमिति
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy