________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
मा भूत् परीक्षा, किं नरिछन्नमपरीक्षैवास्त्वित्यत आहअपरीक्षापि नो युक्ता, गुणदोषाविवेकतः ।
>
महत् सङ्कटमायातमाशङ्के न्यायवादिनः ॥ ७ ॥ ११९ ॥ अपरीक्षापीति - वस्तुतत्त्वस्य सदसद्विचाराभावलक्षणाऽपरीक्षाऽपीत्यर्थः, नो नैव, युक्ता सङ्गता, कस्मान्न युक्तेत्यपेक्षायामाह - गुणदोषाविवेकत इति - वस्तुतत्त्वस्यापरीक्षायां गुण इति वस्तुतत्त्वपरीक्षाऽभावो यथा भवेत् तथा यत्रो विधेयः, वस्तुतत्त्वपरीक्षायां दोष इति ततो निवर्तितव्यमित्येवं गुणदोषविवेकस्याभावात् को जानाति मानानां परीक्षैव गुणवती, उत मानानामपरीक्षैव दोषवतीत्येवं संदेहस्यापि सर्वत्र संदिहानस्य प्रमातुरसदभिनिवेशेन संभवात्, निष्कम्प - प्रवृत्तिप्रयोजकस्य गुणस्य निष्कम्पनिवृत्तिप्रयोजकस्य दोषस्य चानिश्चयादित्येवं महासङ्कटे प्रविष्टोऽयं वराक इति एतदेवाह - महत् सङ्कटमायातमिति, न्यायवादिनः तार्किकस्य, परीक्षाऽपरीक्षोभयाभावात्, महत् सङ्कटं - किंकर्तव्यताविमूढत्वम्, आयातं प्राप्तम्, इत्याशङ्के सम्भावयामि, 'न्यायवादिनः ' इत्यस्य हरिभद्रसूरिभिः “पापादौ विशेषवाची अत्यन्तभिन्नो वाऽयमागम इति संशयवादिनः" इत्यर्थः कृतः, पापादिप्रतिपादकमागमवचनं न पापाद्यर्थपरं किन्त्वन्यपरम्, अथवा चन्द्र-सूर्योपरागादिप्रतिपादकवचनघटितागमसन्दर्भा - प्रविष्ट एवायमागम इति नागमैकत्वमिति संदिहान इति तदर्थः ।
अत्र शिष्यादिबुद्धिवैशद्यायोपाध्यायैरागमप्रामाण्यप्रसाधनी चर्चा कृता, सा सपरिष्काराऽत्रोपदर्श्यते
" एतेन शब्दस्य वक्त्रधीनत्वाद् वक्तुश्च भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषसम्भवादप्रामाण्यमिति निरस्तम्, नहि सर्व एव वक्ता वक्तव्ये सर्वत्रैवार्थे निरुक्तदोषभागेवेति यस्मिन्नर्थे यथार्थज्ञानादिलक्षणगुणवान् वक्ता तदर्थप्रतिपादकस्य वचनस्य तदर्थे गुणवक्तृकत्वेन प्रामाण्यव्यवस्थितेः आगमस्य तु वक्ता तीर्थङ्करः सर्वथैव निरुक्तदोषरहितः सर्वतदर्थविषयकयथार्थज्ञानवानेवेति तद्वक्तृकत्वेन सम्पूर्णागमवचनानां प्रामाण्यमिति पुण्यपापाद्यदृष्टार्थप्रतिपादकमप्यागमवचनं प्रमाणम्, अत एव अनुमानादस्य विशेषः, शाब्दप्रमायां वक्तृयथार्थवाक्यार्थज्ञानस्य गुणत्वादिति “गुणवद्वक्तृप्रयुक्तशब्दप्रभवत्वादेव शाब्दमनुमानज्ञानाद
?