SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः शिष्येषु सम्प्रदीयमानत्वात् सम्प्रदाय आगमस्तदविच्छेदेन, सम्पूर्णागमाध्ययनाध्यापनकुशलगुरुपरम्पराध्ययनाध्यापनागतागमाविच्छेदेनागमैकत्वं सिध्यतीत्यर्थः । ननु ज्ञानचरणसम्पन्नगुरुपरम्परा अस्मद्गुरुपरम्परैवेत्येके कथयन्ति, अपरे पुनरस्मद्गुरुपरम्परैव ज्ञानचरणसम्पन्नगुरुपरम्परेत्येवं विवादग्रस्तत्वेनायमेव सुवृद्धसम्प्रदाय इत्येवं निर्णेतुमशक्यत्वादनिीतेन सुवृद्धसम्प्रदायेन नागमैकत्वं सिध्यति, यदि चाविनाभूतं सुवृद्धत्वग्राहकं किञ्चिल्लिङ्गं केषांचिदेव गुरूणां सुवृद्धत्वग्राहकमुद्भावयितुं शक्यते तदा तदेव लिङ्गमागमैकत्वसिद्धये किमिति नोपादीयते ? इत्यत आह-तथा पापक्षयेण चेति-सम्यक्त्वप्रतिबन्धकं कर्मात्र पापपदेन विवक्षितं, क्षयश्च तस्य क्षयोपशमरूपोऽभिमतः, सर्वथा क्षयस्य , केवलिनि सिद्ध एव च भावेन तदन्येषां गुरूणां तदभावेन तैरागमैकत्वावसायस्याभिमतस्य सर्वथा क्षयाश्रयणेऽचतुरस्रत्वं स्यात् , तथा च सम्यक्त्वप्रतिबन्धककर्मक्षयोपशमेन चेति तदर्थः । अत्रेमं विवेकमुपदर्शयन्त्युपाध्यायाः-"अयं हि सर्वत्र यथावस्थितत्वग्रहे मुख्यो हेतुः, लब्धीन्द्रियरूपतदभिव्यञ्जकतयैवान्योपयोगात्, तदभिव्यक्तिव्यापारकतयैव 'तथा' इत्यनेन हेत्वन्तरसमुच्चयात् , इति वदन्ति" इति ॥ ५ ॥ ११७ ॥ पापाद्यभिधायकागमवचनस्यागमैकत्वादिहेतुना दृष्टसंवादनिर्णीतप्रामाण्यकचन्द्रोपरागादिप्रतिपादकागमवचनसजातीयत्वं निर्णीय तेन प्रामाण्यनिर्णयतः प्रामाण्यसंशयविच्छेदानभ्युपगमे दण्डमाह अन्यथा वस्तुतत्त्वस्य, परीक्षैव न युज्यते । आशङ्का सर्वगा यस्माच्छमस्थस्योपजायते ॥६॥११८॥ अन्यथेति-यद्येवं नाभ्युपेयते, उक्तरीत्या संशयविच्छेदानभ्युपगमे इति यावत् , वस्तुतत्त्वस्य परीक्षैव इदं वस्तु इत्थमभ्युपगम्यमानं सद् भवितुमर्हति, इत्थं पुनरिष्यमाणमसदेवेत्येवं सदसद्विचार एव, न युज्यते न सङ्गच्छते, उपायाभावात् । उपायाभावमेवावेदयति-आशङ्केति-संशयलक्षणाशङ्केत्यर्थः, यस्मात् यस्मात् कारणात् , छद्मस्थस्य अक्षीणज्ञानावरणीयकर्मणः प्रमातुः, सर्वगा सर्वार्थविषयिणी संशयलक्षणाशङ्का, उपजायते असदाग्रहेण भवति
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy