________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः आगमैकत्वत इति–दृष्टसंवादचन्द्रसूर्योपरागप्रतिपादकागमादृष्टसंवादपापादिप्रतिपादकागमयोरागमत्वेनैकत्वादित्यर्थः, 'तस्य तत्त्वं समवसीयते' इति पूर्वपद्यादनुकृष्यान्वेति, यथा च संवादित्वं प्रामाण्यव्याप्यत्वात् प्रामाण्यस्य गमकं तथा संवादिजातीयत्वमपि प्रामाण्यव्याप्यत्वात् तद्गमकं, तथा च पापपुण्यादिप्रतिपादकागमवचनं प्रमाणं दृष्टसंवादागमवचनजातीयत्वात् , यद् दृष्टसंवादजातीयं तत् प्रमाणं, यथा-दृष्टसंवादजलज्ञानसजातीयमभ्यासदशोत्पन्नं जलज्ञानमित्यनुमानमत्रादृष्टसंवादपुण्यपापादिप्रतिपादकागमवचनस्य प्रामाण्ये प्रमाणम् ; न च दृष्टान्ते विप्रतिपत्तिः, अभ्यासदशोत्पन्नजलज्ञाने पूर्व प्रामाण्यानिर्णये जलार्थिनस्ततो निष्कम्पप्रवृत्त्यनुपपत्तेरिति निष्कम्पप्रवृत्त्यन्यथानुपपत्त्या प्रागेव प्रामाण्य निश्चयस्तत्र जात इत्यवसीयते; न च तदानीं संवादिप्रवृत्तिजनकत्वज्ञानं तत्रेति संवादिजातीयत्वज्ञानादेव प्रामाण्यनिश्चय इति भावः । न चागमैकत्वलक्षणो हेतुरेवासिद्ध इत्यत आह-तच्चेति-आगमैकत्वं चेत्यर्थ', अत्रापि 'समवसीयते' इत्यध्याहृतस्यान्वयः, तत्र हेतुः-वाक्यादेस्तुल्यतादिनेति, वाक्यादेरित्यत्रादिपदात् पदगाम्भीर्यादेरुपग्रहः, तुल्यतादिनेत्यत्रादिपदादनन्तार्थत्वादेः परिग्रहः । नन्वागमानुकारेण पठ्यमानेऽस्मदादिवाक्येऽपि वाक्यपदंगाम्भीर्यादितस्तुल्यता समस्ति, न चागमैकत्वं, तथाऽऽदिपदपरिगृहीतमनन्तार्थत्वादिकं स्वयमेव दुर्ग्रहमिति ततः कथमागमैकत्वनिश्चय इत्यत आह-सुवृद्धसंप्रदायेनेति-ज्ञानचरणसम्पन्नगुरुपरम्परयेत्युपाध्यायाः, सम्पूर्णाभिव्यज्यमानोपलब्धसम्प्रदायाविच्छेदेनेति तु हरिभद्रसूरयः, तत्र प्रथमे गुगौ ज्ञानचरणसम्पन्नत्वविशेषणाद् यः कश्चिद् गुरुर्ज्ञानी भवति, न तु चारित्रसम्पन्नस्तादृशगुरुपरम्परया आगमैकत्वं सूक्ष्मतत्त्वावेदकागमवचनसंदर्भेष्वेव सिद्ध्यति, कश्चिद् गुरुरागमबोधितकर्मसमष्टिकरणपरायणस्तादृशगुरुपरम्परया विहिताविहितक्रियासमादेशकागमवचनसंदर्भेष्वेवागमैकत्वं सिध्यति तत्परम्परायास्तत्समालोचनैकपरायणत्वात् , ये तु गुरवो ज्ञानचरणोभयसम्पन्नास्ते नैकमपि जिनवचनमनुपादेयमित्यवधारणप्रवणाः सम्पूर्णागमवचनाध्ययनाध्यापनैककर्मठास्तस्परम्परया समागतेष्वागमवचनेषु नैकमपि त्रुटितं नाप्यन्यवचनेन मिश्रणमिति सिध्यति तत एकसन्दर्भारूढेष्वागमैकत्वमिति, द्वितीये तु सम्पूर्णतयैवामिव्यज्यमानो न त्वेकेनापि स्वरेण व्यञ्जनेन पदेन वाक्येनाप्यनभिव्यज्यमानः, एतादृशः सन्नुपलब्धोऽध्ययनाध्यापनादिना प्रत्यक्षविषयीकृत आगमो यैस्तैः