SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ द्वितीयः चन्द्रसूर्योपरागादेरिति । ततः आगमप्रतिपादितात्, चन्द्रसूर्योपरागादेः चन्द्रग्रहण - सूर्यग्रहणादिरूपादेरर्थात्, अत्र गम्यमानयबन्तकर्मणि पञ्चमीति चन्द्रसूर्योपरागाद्यर्थमाश्रित्येत्यर्थः । संवाददर्शनात् यया प्रवृत्त्या यथार्थावाप्तिर्भवति सा प्रवृत्तिरविसंवादिप्रवृत्तिः, तज्जनकत्वं संवादः, तस्य दर्शनात् - निश्चयात्, आगमे चन्द्रसूर्योपरागादिकं प्रतिपादितमवगम्य प्रवर्तमानः पुरुषोऽविसंवादिप्रवृत्तिमानुपसंजायते, ततश्चन्द्र-सूर्योपरागादिप्रतिपादकागमवचनस्य चन्द्रसूर्योपरागाद्यर्थे संवादिप्रवृत्तिजनकत्वलक्षण संवादहेतुना प्रामाण्यमनुमीयते । अनुमित्यात्मकनिश्चय विषयप्रामाण्यालिङ्गतचन्द्र सूर्योपरागादिप्रतिपादकागमवचनसजातीयत्वेन अप्रत्यक्षेऽपि अस्मदादिप्रत्यक्षाविषयेऽपि, पापादौ पापपुण्यस्वरूपादृष्टे, तस्य आगमवचनस्य, प्रामाण्यं तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकार तानिरूपकज्ञानजनकत्वम्, न युज्यते न निश्वीयते इति न, नद्वयेन प्रकृतार्थावधारणमिति निश्चीयत एवेत्यर्थः ॥ ३ ॥ ११५ ॥ अत्र पराशङ्कामुपदर्शयति— ४ 腰 यदि नाम क्वचिद् दृष्टः, संवादोऽन्यत्र वस्तुनि | तद्भावस्तस्य तत्त्वं वा, कथं समवसीयते १ ॥ ४ ॥ ११६॥ यदीति । नामेति कोमलामन्त्रणे, क्वचित् चन्द्र-सूर्योपरागादौ प्रत्यक्षविषयीभूतेऽर्थे, संवादः अविसंवादिप्रवृत्तिजनकत्वलक्षणसंवादः, दृष्टः निश्चितश्चन्द्रसूर्योपरागादिप्रतिपादकागमवचनस्य । यदीति पूर्वोक्तबलात् तदेत्यायाति, संवाददर्शनतश्चन्द्रसूर्योपरागप्रतिपादकागमवचनस्य प्रामाण्यं सिध्यतु नाम, न तत्र विप्रतिपद्यामहे इत्यर्थः, अन्यत्र प्रत्यक्षदृष्टचन्द्रसूर्योपरागादिभिन्ने पापादौ, वस्तुनि सद्भूतार्थे, तद्भावः संवादभावः, तस्य पापादिप्रतिपादकागमवचनस्य, तत्त्वं वा तद्वन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताकज्ञानजनकत्व लक्षणं प्रामाण्यं वा, कथं समवसीयते ? प्रामाण्यव्याप्यसंवादित्वग्रहो यदि भवेत् तदा संवादित्वव्यापकस्य प्रामाण्यस्यापि ग्रहस्ततः स्यात्, तद्व्याप्यवत्ता निश्चयस्य तद्धीजनकत्वात्, प्रामाण्यव्याप्यसंवादित्वग्रहलक्षणकारणाभावात् तु प्रामाण्यनिश्चयलक्षण कार्यमपि पापाद्यभिधायकागमवाक्ये दुर्घटमित्यर्थः ॥ ४ ॥ ११६॥ अत्र प्रतिविधानमाह - आगमैकत्वतस्तच्च, वाक्यादेस्तुल्यतादिना । सुवृद्धसम्प्रदायेन, तथा पापक्षयेण च ।। ५ ।। ११७ ॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy