________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
अत एवागमाद् धर्मत्वादिना धर्मादिस्वरूपं जानतां व्युत्पन्नानां न भवति निरुक्तसंशयः, किन्तु आगमात् प्रमाणाद्धिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च शुभं कर्मेति नियम इत्यभिप्रायेणोक्ताशङ्काप्रतिविधानमाह
आगमाख्यात् तदन्ये तु, तच्च दृष्टाद्यबाधितम् । सर्वार्थविषयं नित्यं, व्यक्तार्थ परमात्मना ॥२॥११४॥ आगमाख्यादिति । तदन्ये तु संदेहवादिभिन्ना असंदिहानास्तत्त्ववादिनः पुनः, आगमाख्यात् मानात् आगमसंज्ञकात् प्रमाणात् , 'नियमं ब्रुवते' इति वाक्यशेषः, आगमाख्यं प्रमाणं कथमत्रेत्यपेक्षायामाह-तच्चेति-आगमाख्यं प्रमाणं पुनरित्यर्थः, दृष्टाद्यबाधितमित्यत्रादिपदादिष्टपरिग्रहः, दृष्टेष्टाभ्यामविरुद्धमित्यर्थः, यथा च पयसा सिञ्चतीत्यादि वाक्यं दृष्टेष्टाविरुद्धत्वादबाधितविषयत्वेन पयःकरणकसेचनप्रेरणरूपार्थे प्रमाणं तथा हिंसादिजन्याधर्मा-ऽहिंसादिजन्यधर्मविषयकप्रतिनियतहेतु-हेतुमद्भावनिश्चयलक्षणनियमेऽपि दृष्टेष्टाविरुद्धत्वादबाधितविषयत्वेनागमवाक्यं प्रमाणमिति । ननूक्तनियमो यद्यागमगोचरो भवेत् तदा तत्रागमस्य प्रामाण्यं भवेत् , न चैवं-प्रकृतनियमस्य तदविषयत्वादित्यत आहसर्वार्थविषयमिति-अनभिलाप्यभावानामपि सर्वान्तर्गतत्वात् तद्विषयत्वमागमस्य नास्तीत्यभिसन्धानवद्भिपाध्यायैरस्यायमों दर्शित:-"यावदभिलाप्यभावविषयम् , प्रज्ञापनीयभावानामनन्तभागस्य श्रुतनिबद्धत्वेऽपि तदभ्यन्तरभूतया मत्याऽनिबद्धानामपि तेषां ग्रहणश्रवणान्नानुपपन्नमेतत्" । नन्वनित्यमस्मदादिवचनं न सर्वार्थविषयं, तादृशं चागमाख्यं प्रमाणं कथं सर्वार्थविषयं स्यादित्यत आइ-नित्यमिति-प्रवाहापेक्षयाऽनादिनिधनमित्यर्थः, यदापि भरतादौ विच्छिद्यत एतत् तदाऽपि महाविदेहेऽविच्छेद एवास्येति प्रवाहापेक्षयाऽनादिनिधनत्वं नानुपपन्नम् । ननु प्रवाहापेक्षयाऽनादिनिधनत्वेऽप्यस्यानातोक्तत्वान प्रामाण्यमित्यत आह-व्यक्तार्थ परमात्मनेति-क्षीणदोषेण सर्वज्ञेन भगवता प्रकटीकृतार्थमित्यर्थः, तथा चाप्तोक्तत्वात् प्रमाणमिति ॥ २ ॥ ११४ ॥
ननु प्रत्यक्षविषयीभूतेऽर्थे भवतु प्रामाण्यमस्य, पुण्यपापाख्येऽदृष्टे त्वत्यन्तपरोक्षेऽस्य प्रामाण्यग्राहकमानाभावात् प्रामाण्यप्रतिपादनं स्वगृह एव स्वपुत्रशिष्यादीन् प्रत्येव शोभत इत्याशङ्कायामाह
चन्द्रसूर्योपरागादे-स्ततः संवाददर्शनात् । तस्याप्रत्यक्षेऽपि पापादौ, न प्रामाण्यं न युज्यते॥३॥११५॥