SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः : ५७ वाक्यादित्यत्र वाक्यपदेन वैदिकप्रशंसानिन्दावाक्यग्रहणं, ततोऽपीश्वरसिद्धिः, अत्रोदयनाचार्याणामनुमानप्रकार उल्लिखितः । “५८ सङ्ख्याविशेषादित्यत्र सङ्ख्याविशेषपदेन वक्तृगामिनी सङ्ख्या गृह्यते ततोऽपीश्वरसिद्धिर्दर्शिता । २८ ६९ एतद्विषये उदयनाचार्योक्तिप्रपञ्च उद्भावितः, तत्र 'स्यामभूवं भविष्यामि' इति तदीयपद्य मुल्लिखितम् । ६० पातञ्जलानां नैयायिकानां चेश्वरसाधनप्रक्रिया तावदेव शोभते यावज्जैनाचार्ययुक्तिबाधिता न भवति लोकमान्या च भवतीत्येवमभिप्रायकञ्चोपाध्यायपद्यमुपदर्शितम् । ॥ इति ईश्वर कर्तृत्व पूर्वपक्षः ॥ पत्रं पङ्किः ९० १० ९० ९० ॥ अथ ईश्वरजगत्कर्तृत्वखण्डनम् ॥ ६१ परमार्थतो वीतरागत्वेन परमेश्वरस्य प्रयोजनाभावेन जगत्कर्तृत्वं न युज्यत इति ईश्वरकर्तृत्वप्रतिक्षेतॄणां वार्त्ता । ९१ ६२ केन हेतुना नरकादिफले कर्मणि कांश्चित् स्वर्गादिसाधने कर्मणि कांश्चिज्जन्तून् प्रेरयतीश्वरः । ६३ यदि चित्रकर्मणि स्वयमेव प्रवर्तन्ते जन्तवस्तर्हि निरर्थकं कर्तृत्वं कथमीश्वरे स्वीक्रियत इति । ९२ ६४ ईश्वरप्रेरितं सन्निखिलं शुभाशुभकर्म फलं ददाति यदि तर्हि तत्प्रेरितमशुभकर्मापि शुभफलं दद्यात्, शुभकर्माप्यशुभं फलं दद्यात्, अन्यथा भक्तिमात्रतैवेति । ६५ सर्वमचेतनं चेतनाधिष्ठितमेव कार्यं करोत्यचेतनत्वादित्यनुमाने ९१ १०. ९२ १५ १७ ९४ ९४ २४ १० ९३ १० २२ वनबीजे व्यभिचारस्य तत्पक्षीकरणेन वारणाशङ्काया अपाकरणम् । ९३ २७ ६६ कृतकृत्यस्य भगवतः प्रयोजनमन्तरेणादिसर्गेऽपि हेतुत्वं न सम्भवति, एवमपि कर्तृत्वे प्रतिज्ञातवीतरागत्वं विरुद्ध्येत, तथाऽप्रमाणकः स्वभावोऽपि न युक्त इति । ६७ कर्मादेरीश्वरानपेक्षस्यैव कर्तृत्वस्वभावाभ्युपगमे न किञ्चिद् बाध्यते, ईश्वरस्य तथास्वभावकल्पने कृतकृत्यत्वबाधः । १८
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy