________________
शास्त्रवार्तासमुच्चयः।
[तृतीयः तथोपदर्शयति-वीतरागस्येति-सर्वथा रागरहितस्य, पातञ्जलाभ्युपगतस्य महेश्वरस्येत्यर्थः । इत्थं यथोक्तप्रेरकत्वे, प्रयोजनाभावात् प्रयोजनस्य कस्यचित् स्वेष्टस्थाभावात् , भावतः परमार्थतः, पारमार्थिकं कर्तृत्वमिच्छाधीनमेव भवति “नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते", वीतरागस्य तु भगवत इच्छैव नास्ति, लोकेऽपि यः कश्चित् परप्रेरको दृश्यते स स्वप्रयोजनाभिलाष्येव, तथा च परप्रेरकत्वस्य व्यापिका स्वप्रयोजनेच्छेति निर्णीता, ईश्वरे च व्यापकीभूतस्वप्रयोजनेच्छाया अभावाद् व्याप्यस्य कर्तृत्वस्य परप्रेरकत्वलक्षणस्याप्यभाव इत्याह-कतृत्वं युज्यते कथमिति-न कथञ्चित् कर्तृत्वं तस्य युज्यत इत्यर्थः ॥ ४ ॥ १९७ ॥ एतदेव स्पष्टयतिनरकादिफले कांश्चित् , कांश्चित् स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु, स जन्तून केन हेतुना ? ॥५॥१९८॥
नरकादिफल इति-ब्रह्महत्यादिलक्षणप्राणातिपातादौ नरकादिफलसाधने इत्यर्थः, अस्य कर्मणीत्यनेन सम्बन्धः, कांश्चित् कांश्चिजन्तून् , कांश्चित् कांश्चिजन्तून्, स्वर्गादिसाधने कर्मणि स्वर्गादिफलावन्ध्यकारणे यम-नियमादिक्रियायाम् , आशु शीघ्रम् , स ईश्वरः, केन हेतुना केन कारणेन, प्रेरयति चोदयति, क्रीडाकौतुकादिकं स्वाभिलषितं प्रयोजनमभिकाङ्क्षन् जन्तून् प्रेरयतीत्यभ्युपगमे नरकादिफल के ब्रह्महत्यादौ यान् प्राणिनः प्रेरयति तान् प्रति द्वेषः, यांश्च स्वर्गादिफलके यम-नियमादौ प्रेरयति तान् प्रति रागोऽस्य प्रसज्यत इति वैराग्यव्याहतिः, यदि च नास्य किञ्चित् प्रयोजनं तदा तन्मूलकप्रेरणाभावात् प्रेरकत्वं स्वसिद्धान्तितं व्याहन्यत इति सेयमुभयतःपाशा रजः परस्येति हृदयम् ॥५॥१९८॥ पराभिप्रायमाशय परिहरति
स्वयमेव प्रवर्तन्ते, सत्त्वाश्चेचित्रकर्मणि ।।
निरर्थकमिहेशस्य, कर्तृत्वं गीयते कथम् ॥६॥१९९॥ स्वयमेवेति-आत्मनैव, तमःसत्त्वोद्रेकेण तामसबुद्ध्यंशव्यापारावेशेनैवेति यावत् , चित्रकर्मणि ब्रह्महत्याद्यशुभकर्मणि यमनियमादिशुभकर्मणि च, सत्त्वाः प्राणिनः, प्रवर्तन्ते, अहमेव कर्तेत्येवमभिमन्यन्ते, तत्प्रयोजनं तु सर्वज्ञत्वादीश्वरो जानातीत्येवं प्रयोजनज्ञानार्थमीश्वरापेक्षेति चेत् ? इह उपदर्शिते शुभाशुभात्मककर्मणि. ईशस्य परमेश्वरस्य, निरर्थकं निष्प्रयोजनं, कर्तृत्वं प्रेरकत्वं, कथं