________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः दनभ्युपगमात् , अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा विप्रतिपत्तिः । स्यादेतत्-ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः, तदध्येया तदनुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् , न-क्षत्रियादेरपि तत्रैवाधिकारात् ; न च यो ब्राह्मणस्य विशेषः स क्षत्रियादौ सम्भवति, न च क्षत्रियादेरन्यो वेद इत्यस्ति, न च कठाः काठकमेवाधीयते तदर्थमेवानुतिष्ठन्तीति नियमः; शाखासञ्चारस्यापि प्रायशो दर्शनात् ; प्रागेवायं नियम आसीदिदानीमयं विप्लवते इति चेत् ? विप्लव एव तर्हि सर्वदा कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम् , तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्विति" इत्यामनन्ति ।
इत्थं पातञ्जला-ऽक्षपादागमोपढौकितेश्वरसाधनश्रवणतस्तावदेव लोको विस्मयतरलितमानसो भवति यावत् तत्खण्डनपटिष्ठजैनागमस्मरणाभिमुखो न भवति, यथा बदरीफलरसमास्वादयन् पुरुषस्तावदेव तन्माधुर्यमहिमानमातनोति यावत् परिपक्वरसां द्राक्षां रसनया न साक्षात्करोति, रसनया साक्षात्कृतवतां परिपक्वद्राक्षामाधुर्य पुरतो बदरीफलं सर्वथोपेक्षणीयभावमेवाञ्चति यथा तथा जैनागमाभिहितजगत्कारणेश्वरमननखण्डनप्रवणागमस्मरणतानहृदयानां पुरो युक्त्याभासकरम्बितमेवाभाति जगत्कर्तृसाधनवचनं, यदुक्तमुपाध्यायैः
"श्रुत्वैवं सकृदेवमीश्वरपरं सांख्याक्षपादागम, लोको विस्मयमातनोति न गिरो यावत् स्मरेदाहतीः । किं तावद्वदरीफलेऽपि न मुहुर्माधुर्यमुन्नीयते, यावत् पीनरसा रसाद् रसनया द्राक्षा न साक्षात्कृता ॥ १॥"
॥ इति ईश्वरकर्तृत्वपूर्वपक्षः ॥
अथ ईश्वरजगत्कर्तृत्वखण्डनम्अथ ईश्वरकर्तृत्वपूर्वपक्षप्रतिविधानवार्तामुपदर्शयतिअन्ये त्वभिदधत्यत्र, वीतरागस्य भावतः । इत्थं प्रयोजनाभावात् , कर्तृत्वं युज्यते कथम् ? ॥४॥१९७॥
अन्ये विति-ईश्वरजगत्कर्तृत्ववादिभिन्ना जैनाः पुनरित्यर्थः, अत्र ईश्वरविषयकविचारे, अभिदधति परीक्षां कुर्वन्ति, परीक्षापूर्वाङ्गं परमतनिराकरणं यथा