________________
शास्त्रवार्तासमुच्चयः ।
[तृतीयः भाव्यभूतार्थसाधारणत्वात् ; अन्यत्रामीषां तात्पर्यमिति चेत् ? स्वार्थप्रतिपादनद्वारा, शब्दमात्रतया वा, प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम् , तस्यार्थस्यानन्यप्रमाणकत्वात् , अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या; तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत् ?, स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्य को दोषः, अन्यथा स्वर्गनरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत; तत्राबाधनात् तथेति चेत् ?, तुल्यम् ; न तागर्थः क्वचिदृष्ट इति चेत्?, स्वर्गादयोऽपि तथा; तन्मिथ्यात्वे तदर्थनामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत् ? इहापि तदुपासनानर्थक्यप्रसङ्गः, तन्मिथ्यात्वे हि सालोक्य-सायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपासीतेति तुल्यमिति" इत्याहुः । ___ वाक्यादित्यत्र वाक्यपदेन वैदिकप्रशंसानिन्दावाक्यं गृह्यते, ततोऽपीश्वरसिद्धिः, तस्य तदर्थज्ञानपूर्वकत्वात् , तदर्थज्ञानं चेश्वरस्यैव नास्मदादेरिति, उदयनाचार्यास्तु"वाक्यादपि संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतं, तथा च यत्पदकदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षसंसर्गज्ञानपूर्वकं, यथा लौकिकं तथा च वैदिकमिति प्रयोगः, विपक्षे च बाधकमुक्तम्" इत्युदीरितवन्तः।
संख्याविशेषादित्यत्र संख्याविशेषपदेन वक्तगामिनी संख्या गृह्यते, तस्मादपीश्वरः सिध्यति, स्यामभूवं भविष्यामीति वेदवचनप्रतिपाद्या स्वतन्त्रोच्चारयितृपुरुषनिष्ठा संख्या स्वाश्रयतया पुरुषधौरेयमीश्वरं गमयतीति । उदयनाचार्यास्तु-संख्याविशेषादपि
"स्यामभूवं भविष्यामीत्यादिसंख्या च वक्तृगा।
समाख्याऽपि न शाखानामाद्यप्रवचनादृते ॥ १॥" कार्यतया हि प्राक् संख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते, तथाहि-उत्तमपुरुषाभिहिता संख्या वक्तारमन्तीति सुप्रसिद्धम् , अस्ति च तत्प्रयोगः प्रायशो वेदे ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽनन्वयप्रसङ्गात् , अथवा समाख्याविशेषः संख्याविशेष उच्यते, काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते, ते च न प्रवचनमात्रनिबन्धनाः, प्रवक्तृणामनन्तत्वात् , नापि प्रकृष्टवचननिमित्ताः; उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् , तत्पाठानुकरणे च प्रकर्षाभावात् , कति चानादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति, नाप्याद्यस्य वक्तुः समाख्येति युक्तं, भवद्भिस्त
wwwwww