________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
इति तदीयं पद्यद्वयम् । सङ्खयेयस्य कर्तुराख्यातवाच्यत्वनिराकरणपरं तदीयपद्यमिदम्
"आक्षेपलभ्ये सङ्कयेये, नाभिधानस्य कल्पना ।
सङ्ख्येयमात्रलाभेऽपि, साकाङ्क्षण व्यवस्थितिः ॥ १॥"[ ] इति, कर्मधर्मस्य विध्यर्थत्वनिराकरणपरं तदीयपद्यमिदम्
"अतिप्रसङ्गान फलं, नापूर्व तत्वहानितः ।
तदलाभान्न कार्य च, न क्रियाऽप्यप्रवृत्तितः" ॥ १ ॥ [ ] इति । करणधर्मस्य विध्यर्थत्वनिराकरणपरं तदीयपद्यमिदम्
"असत्त्वादप्रवृत्तेश्च, नाभिधाऽपि गरीयसी।
बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १॥” इति [ ] इष्टसाधनत्वस्य विध्यर्थत्वनिराकरणपरं तदीयपद्यमिदम्
"हेतुत्वादनुमानाच्च, मध्यमादौ वियोगतः ।
अन्यत्र क्लप्तसामर्थ्यात् , निषेधानुपपत्तितः ॥ १॥” इति [ ] नियोक्तृधर्मस्याभिप्रायस्य विध्यर्थत्वोपसंहरणपरं तदीयपद्यमिदम्___ “विधिवक्तुरभिप्रायः, प्रवृत्त्यादौ लिङादिभिः ।
अभिधेयाऽनुमेया तु, कर्तुरिष्टाऽभ्युपायता ॥ १ ॥" [ ] इति । एतत्पद्यनिकरार्थाधिगतये कुसुमाञ्जलिग्रन्थो विशेषावगत्यर्थिभिरवलोकनीयो, ग्रन्थगौरवभयान्नेह दर्शितः ।
श्रुतेरित्यत्र श्रुतिपदेनेश्वरप्रतिपादकवेदः परिगृह्यते, तस्मादपीश्वरः सिध्यति, "यज्ञो वै विष्णुः” [ ] इत्यादेर्विध्येकवाच्यतया “यन्न दुःखेन संभिन्नम्" [ ] इत्यादिवत् तस्य स्वार्थ एव प्रामाण्यात् , उदयनाचार्यास्तु-"श्रुतेः खल्वपि
"कृत्स्न एव हि वेदोऽयं, परमेश्वरगोचरः।
स्वार्थद्वारैव तात्पर्य, तस्य स्वर्गादिवद्विधौ ॥ १॥" [ ] न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते, तथा हि स्रष्टुत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति; सिद्धार्थतया न ते प्रमाणमिति चेत् ? न-तद्धेतोः कारणदोषशङ्कानिरासस्य