SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ce [तृतीयः शास्त्रवार्तासमुच्चयः। आज्ञा-ऽध्येषणा-ऽनुज्ञा-संप्रश्न-प्रार्थना-ऽऽशंसालिङि इच्छाशक्तत्वस्यैव कल्पनाच्च, उल्लङ्घने क्रोधादिभयजनिकेच्छा आज्ञा, अध्येषणीये प्रयोक्तुरनुग्रहद्योतिकाऽध्येषणा, निषेधाभावव्यञ्जिकाऽनुज्ञा, प्रयोजनादिजिज्ञासा प्रश्नः, शुभेच्छाऽऽशंसा, निषेधानुपपत्तेश्च, इष्टसाधनत्वनिषेधस्य बाधात् , बलवदनिष्टाननुबन्धित्वस्यापि तदर्थत्वे "श्येनेन" इत्यादौ, अलसस्य यागादिदुःखेऽपि बलवद्वेषेण 'यजेत' इत्यादौ बाधात् , तत आप्ताभिप्रायस्यैव विध्यर्थत्वात् तादृशाभिप्रायवदीश्वरसिद्धिः । एतद्विषये उदयनाचार्या इत्थमाहुः-“प्रत्ययादपि, लिङादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रतिपादयन्ति, तथाहि___ "प्रवृत्तिः कृतिरेवात्र, सा चेच्छातो यतश्च सा। तज्ज्ञानं विषयस्तस्य, विधिस्तज्ज्ञापकोऽथवा ॥ १ ॥ [ ]" प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , आत्मा ज्ञातव्य इत्याद्यव्यापनात्, नापीच्छामात्रं, तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् , ततः प्रयत्नः परिशिष्यते, आत्मज्ञानभूतदयादावपि तस्या भावात् , तदुक्तं-प्रवृत्तिरारम्भ इति, सेयं प्रवृत्तिर्यतः सत्तामात्रादवस्थितात्, नासौ विधिः शास्त्रवैयर्थ्यात् , अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्ययनार्थं तदभ्यर्थनाभावात् , न च प्रवृत्तिहेतुजननार्थं तदुपयोगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् , ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्यत्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्तकत्वाच्च, नियामकाभावात् , तस्मात् यस्य ज्ञान प्रयत्नजननीमिच्छां प्रसूते सोऽर्थविशेषो तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिनियोग उपदेश इत्यनान्तरमिति स्थिते विचार्यते-स हि कर्तृधर्मों वा स्यात् , कर्मधर्मो वा, करणधर्मो वा नियोक्तृधर्मों वेति" इत्थं चतुर्धा विकल्प्य, तस्य कर्तृधर्मत्वनिराकरणपरमुदयनाचार्यपद्यमिदम् "इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः ।। असत्त्वात् प्रत्ययत्यागात् , कर्तृधर्मो न सङ्करात् ॥ १ ॥[ ]" इति । यत्नस्य कर्तृधर्मस्याख्यातसामान्यवाच्यत्वव्यवस्थापनपरं "कृताकृतविभागेन, कर्तृरूपव्यवस्थया । यत्न एव कृतिः, पूर्वापरस्मिन् सैव भावना ॥ १ ॥ भावनैव हि यत्नाल्मा, सर्वत्राख्यातगोचरः । तया विवरणध्रौव्यादाक्षेपानुपपत्तितः ॥ २ ॥” [ ] mm
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy