________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः वाक्यवदित्येवं धृत्येश्वरानुमानम् ; यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् अनुष्ठितत्वात् गगनवदित्येवमनुष्ठानेनेश्वरानुमानम् ; पदादित्यत्र पदशब्देन प्रणवेश्वरादिपदं गृह्यते, तत्सार्थक्यात् , स्वतन्त्रोच्चारयितृशक्तश्रुत्यादिस्थाहंपदाद् वा ईश्वरसिद्धिः, न चेश्वरादिपदस्य स्वपरता,
“सर्वज्ञता तृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः, षडाहुरङ्गानि महेश्वरस्य ॥ १ ॥ [ ]" इत्यादिवाक्यशेषेण “ईश्वरमुपासीत" [ ] इत्यादिविधिस्थेश्वरादिपदशक्तिग्रहात् , यथा यवादिपदस्य
"वसन्ते सर्वशस्यानां, जायते पत्रशातनम् ।
मोदमानाश्च तिष्ठन्ति, यवाः कणिशशालिनः ॥ १ ॥[ ]" इत्यादिवाक्यशेषात् दीर्घशूकविशेषे शक्तिनिर्णयेन न कङ्कादिपरतेति, तदुक्तं कुसुमाञ्जलौ
"उद्देश एव तात्पर्य, व्याख्या विश्वदृशः सती।
ईश्वरादिपदं सार्थ, लोकवृत्तानुसारतः ॥ १ ॥” इति, व्याख्यातं चेदं वर्द्धमानोपाध्यायेन, तद्यथा-"अत्र कार्यत्वमुद्देश्यत्वम् , उद्देशश्च तात्पर्य, तद्विषय एव वेदस्य प्रामाण्यम् , तच्च परिशेषाद् वक्तुरिच्छा, सा च वेदाथै नास्मदादीनामिति तदाश्रयेश्वरसिद्धिरित्याह-उद्देश एवेति वेदस्यायोजनमासमन्ताद्भावेन योजनं व्याख्यानं, तच्चास्मदादीनां सर्ववेदादर्शिनां न निष्कम्पप्रवृत्तिहेतुरिति तद्वयाख्यातृतयेश्वरसिद्धिरित्याह-व्याख्येति, ईश्वरादिपदानां सर्वज्ञे नित्यज्ञाने वेदादेव शक्तिग्रहात् ततोऽपि तत्सिद्धिरित्याह-ईश्वरादीति, लोकवृत्तेतिलौकिकदृष्टान्ते व्याप्तिग्रहादित्यर्थः, विस्तरश्चात्र मूले कुसुमाञ्जलौ तद्वयाख्याने च प्रकाशे द्रष्टव्यः ।
प्रत्ययत इत्यत्र प्रत्ययपदेन विधिप्रत्यय उच्यते ततोऽपीश्वरसिद्धिः, आप्ताभिप्रायस्यैव विध्यर्थत्वात् , न हीष्टसाधनत्वमेव तथा, “अग्निकामो दारुणी मनीयात्" [ ] इत्युक्तौ, कुत इति प्रश्ने 'यतो दारुमथनमग्निसाधनम्' इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थवत्त्वानुमानानुपपत्तेः, अभेदे हेतुत्वेनोपन्यासानौचित्यात्, "तरति मृत्युम्" [ ] इत्यादौ विधिवाक्यानुमानानुमानानुपपत्तेश्च, इष्टसाधनतायाः प्रागेव बोधात् , 'कुर्याः कुर्याम्' इत्यादौ वक्तृसंकल्पस्यैव बोधात्,