SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुञ्चयः। [तृतीयः द्वयणुकपरिमाणं संख्याजन्यं जन्यपरिमाणत्वात् घटादिपरिमाणवत्, न वा दृष्टान्तासिद्धिः, द्विकपालादिपरिमाणात् त्रिकपालादिघटपरिमाणोत्कर्षात् । .. उदयनाचार्याणामियमत्र प्रक्रिया-“संख्याविशेषात् खल्वपि, द्वयणुक-त्र्यणुके तावत् परिमाणवती द्रव्यत्वात् , तञ्च परिमाणं कार्य कार्यगुणत्वात् , न च तस्य परमाणुपरिमाणं द्वयणुकपरिमाणं वा कारणं, नित्यपरिमाणत्वात् , अणुपरिमाणत्वाञ्च, अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात्, द्वयणुकस्य महत्त्वप्रसङ्गाञ्च-त्र्यणुकवद. ण्वारभ्यत्वाविशेषाच्च, तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितः, अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम् , महतो महदनारम्भप्रसङ्गात् , अणुत्व-महत्त्वयोर्विरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् , बहुभिरपि परमाणुभिर्द्वाभ्यामपि द्वयणुकाभ्यामारम्भप्रसङ्गाच्च, एवं सति को दोष इति चेत् ?, परमाणुकार्यस्य महत्त्वप्रसङ्गः, कारणबहुत्वस्य तद्धेतुत्वात् , अन्यथा द्वाभ्यां विभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् , अणुन एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् , अस्तु महदारम्भ एव त्रिभिरिति चेत् ? न-महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् , तथापि वा तारतम्ये संख्यैव प्रयोजिकेति, न च प्रचयोऽपेक्षणीयोऽवयवसंयोगस्याभावात् , तस्मात् परिमाण-प्रचयौ महत एवारम्भकाविति स्थितिः, अतोऽनेकसंख्या परिशिष्यते, सा अपेक्षाबुद्धिजन्या अनेकसंख्यात्वात् , न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति, तद् यस्यासौ सर्वज्ञः, अन्यथाऽपेक्षाबुद्धेरभावात् संख्यानुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् , त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः; अस्मदादीनामानुमानिक्यपेक्षाबुद्धिरस्त्विति चेत् ?, न-इतरेतराश्रयप्रसङ्गात् , जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमान, तस्मिन् सति द्वयणुकादिक्रमेण स्थूलोत्पत्तिः; अस्त्वदृष्टादेव परिमाणं कृतमपेक्षाबुद्ध्येति चेत् ?, न-अस्तु तत एव सर्व, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति" इति । ___ अथवा कार्यायोजनटत्यादेरित्यत्र कार्यपदेन तात्पर्यमुच्यते, तथा च वेदे यस्य तात्पर्य स एवेश्वर इति तात्पर्यादीश्वरसिद्धिः, आयोजनं सद्वयाख्यानं, वेदाः केनचिद् व्याख्याताः, महाजनपरिगृहीतवाक्यत्वात् , अव्याख्यातत्वे तदर्थानवगमेऽननुष्ठानापत्तेः, एकदर्शिनोऽस्मदादेश्च व्याख्यायामविश्वास इति तद्वयाख्ययेश्वरसिद्धिः, तिपदेन मेधाख्यज्ञानरूपा धारणोच्यते, धृत्यादेरित्यादिपदादनुष्ठानस्य ग्रहणं, तथा च वेदावेदविषयकजन्यधारणान्यधारणाविषयातिवाक्यत्वात् , लौकिक
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy