________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
८५ इति । वाक्यादपि ईश्वरः सिध्यति-'वेदः पौरुषेयो वाक्यत्वात् , भारतवत्' इत्यन्वय्यनुमानात् , उक्तार्थमित्थं स्पष्टीकृतवन्त उदयनाचार्याः- "अन्वयतो वा वेदवाक्यानि पौरुषेयाणि वाक्यत्वात् , अस्मदादिवाक्यवत् ; अस्मर्यमाणकर्तृकत्वानैवमिति चेत्?, न-असिद्धेः,
"अनन्तरं च वक्रेभ्यो, वेदास्तस्य विनिःसृताः । प्रतिमन्वन्तरं चैषा, श्रुतिरन्या विधीयते ॥ १॥
वेदान्तकृद्वेदविदेव चाहम्" इति स्मृतेः, "तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे” इत्यादिश्रुतिपाठकस्मृतेश्च; अर्थवादमात्रमिति चेत् ?, न-कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् , तथा चास्मरणे कालिदासादेरस्मरणात् , एवं च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः, अनैकान्तिकत्वं वा हेतोः; प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेत् ?, न-प्रणेतारं प्रत्यसिद्धेः, अन्यं प्रत्यनैकान्तिकत्वात् , आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं प्रति प्रमाणान्तरगोचरस्यापि तेनैव वत्रा प्रतिपाद्यमानत्वात्; वक्तैव प्रकृते न सम्भवति, हेत्वभावे फलाभावात् चक्षुरादीनां तत्रासामर्थ्यात् , अस्मदादीन्द्रियवत्, मनसो बहिरस्वातन्त्र्यात्, न-चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् , नित्यनिराकरणे चासामर्थ्यात् ; परमाण्वादयो न कस्यचित्प्रत्यक्षास्तत्सामग्रीरहितत्वादिति चेत् , न-द्रष्टारं प्रत्यसिद्धेः, अन्य प्रति सिद्धसाधनात्; तथापि वाक्यत्वं न प्रमाणम् , अप्रयोजकत्वात् प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वं, न तु वाक्यत्वप्रयुक्तं, न-सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात्; प्रमाणवाक्यस्य सत इति चेत् ? न-प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवेशात् स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् , अर्थप्रतीत्येकविषयौ हि विवक्षा-प्रयत्नौ स्वातत्र्यम् , मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च, तदर्थस्य शब्देतरप्रमाणागोचरत्वात् ; प्रयुज्यमानवाक्येतरगोचरार्थत्वमात्रमिति चेत् ? न-तस्य वेदेऽपि सत्त्वात् , एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात् ; अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेत ? न-उक्तोत्तरत्वात्” इति । __ सङ्ख्याविशेषादपि ईश्वरः सिद्ध्यति, संख्याविशेषः-घ्यणुकपरिमाणजनिका संख्या, तथाहि-इयं संख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वात् , इति, अस्मदाद्यपेक्षाबुद्ध्यजन्यत्वादतिरिक्तापेक्षाबुद्धिसिद्धौ तदाश्रयतयेश्वरसिद्धेः; न चासिद्धिः,