SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [तृतीयः एतेन “नमः कुलालेभ्यः कर्मारेभ्यः" [शु. यजुः. सं. १६।२७] इत्यादि यजूंषि बोद्धव्यानि" इति । प्रत्ययतोऽपीश्वरसिद्धिः, प्रत्ययशब्देन प्रमेत्युच्यते, वेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात्, आधुनिकवाक्यजशाब्दप्रमावत् ; अनोदयनाचार्या एवमाहुः-प्रत्ययोऽपि, प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते, तथा च प्रयोगः-आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् , नहि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः, न चासिद्धस्य प्रामाण्यस्य प्रतीतिः, न च स्वतः प्रामाण्यमित्यावेदितम् , न च नेदं प्रमाणं महाजनपरिग्रहादित्युक्तम् , न चासर्वज्ञो धर्माधर्मयोः स्वातन्येण प्रभवति, न चासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत् । श्रुतेरपीश्वरः सिध्यति, तथाहि-वेदोऽसंसारिपुरुषप्रणीतः, वेदत्वात् , यन्नैवं तन्नैवं यथा भारतादि, इति व्यतिरेकिणः; न च परमते साध्याप्रसिद्धिः, आत्मस्वमसंसारिवृत्ति जातित्वात्, घटत्ववदित्यनुमानेन पूर्व साध्यसाधनात् ; अत्रोदयनाचार्या इत्थमामनन्ति-"श्रुतेः खल्वपि, तथाहि-सर्वज्ञप्रणीता वेदा वेदत्वात् , यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदो यथेतरवाक्यम् ; ननु किमिदं वेदत्वं नाम, वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् , अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेत् ? न-अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् , न ह्यस्मदादीनां प्रत्यक्षादि मूलं नापि भ्रम-विप्रलिप्से, महाजनपरिग्रहादित्युक्तं, नापि परम्परैव मूलं प्रलये विच्छेदादित्युक्तम्" इति, एतद्वयाख्याने वर्द्धमानोपाध्याया वेदत्वस्वरूपासन्दिग्धप्रतिपत्तये इत्थमाहुः-ननु वाक्यत्वमसिद्धं समुदायस्याप्रतिपादकत्वात्। न च शाखासमुदायो वेदः, तस्य वेदनिरूप्यत्वात्; नापि महाजनानां वेदाकारानुगतव्यवहाराद् वेदत्वं जातिः, देवदत्तीयत्वानुमापकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात्; नापि स्वर्गकामादिशब्दः, स्मृत्यादौ तथात्वात्; उच्यते-शब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम् , ईश्वरप्रमाया अजन्यत्वात् , वेदार्थस्यानुमानादिविषयत्वेऽप्यनुमानादेर्वेदोपजीवकत्वात् , स्मृत्यादीनां वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् , वेदादर्थं प्रतीत्य तत्प्रणयनात्"
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy