________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः कूर्मादिविषया अप्यागमा व्याख्याताः । संहरणात् खल्वपि-ब्रह्माण्डादिव्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाठ्यमानपटवत् , अत्राप्यागमः
“एष सर्वाणि भूतानि, समभिव्याप्य मूर्तिभिः । जन्म-वृद्धि-क्षयैर्नित्यं, सम्भ्रामयति चक्रवत् ॥ १॥" [ ] “सर्वभूतानि कौन्तेय !, प्रकृति यान्ति मामकीम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ १ ॥" [भ. गी. ९।७] इत्यादि, “एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः” इति ।
पदादपि ईश्वरः सिद्धयति, पद्यते गम्यतेऽनेनेति पदं व्यवहारः, तत ईश्वरसिद्धिरेवं- 'घटादिव्यवहारः स्वतन्त्रपुरुषप्रयोज्यो व्यवहारत्वात् , आधुनिककल्पितलिप्यादिव्यवहारवत्' इत्यनुमानात् , न च पूर्वपूर्वकुलालादिनैवान्यथासिद्धिः, प्रलयेन तद्विच्छेदात् ; अमुमर्थमुदयनाचार्या इत्थमुपवर्णयाञ्चक्रुः-“पदात् खल्वपि
"कार्यत्वान्निरुपाधित्वमेवं धृति-विनाशयोः। विच्छेदेन पदस्यापि, प्रत्ययादेश्व पूर्ववत् ॥ १॥" [ ]
पदशब्देनात्र पद्यते-गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते, अतोऽपीश्वरसिद्धिः, तथाहि-यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात् , निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत् , चैत्र-मैत्रादिपदव्यवहारवत् , पत्राक्षरवत् , पाणिनीयवर्णनिर्देशक्रमवञ्चेति; आदिमान् व्यवहार एवम् , अयं त्वनादिरन्यथाऽपि भविष्यतीति चेत् ?, न-तदसिद्धेः, आदिमत्तामेव साधयितुमयमारम्भः; न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः, तथाऽपि तस्याविरोधात्, नहि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिव्यवहारोऽप्यादिमानिति; अस्त्वर्वाग्दी कश्चिदेवात्र मूलमिति चेत् ?, न-तेनाशक्यत्वात् , कल्पादावादर्शाभासस्याप्यसिद्धेः, साधितौ च सर्ग-प्रलयौ; ननु व्यवहारयितृवृद्धः शरीरी समधिगतो न चेश्वरस्तथा, तत् कथमेवं स्यात् ? न-शरीरान्वयव्यतिरेकानुविधायिनि कार्य तस्यापि तद्वत्त्वात् , गृह्णाति हीश्वरोऽपि कार्यवशाच्छरीरमन्तराऽन्तरा, दर्शयति च विभूतिमिति; अत्राप्यागमः
"पिताऽहमस्य जगतो, माता धाता पितामहः ॥ [भ.गी. ९।१७] तथा, यदि ह्यहं न वर्तेयं, जातु कर्मण्यतन्द्रितः।। मम वानुवर्तन्ते, मनुष्याः पार्थ ! सर्वशः ॥ १ ॥ [ ] उत्सीदेयुरिमे लोका, न कुर्यां कर्म चेदहम् ।" [भ.गी. ३।२३] इति,