SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । www “अहं सर्वस्य प्रभवः, मत्तः सर्वं प्रवर्तते " [ भ.गी. १०/८ ] इत्यादि; " एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः" इति । धृतेरपीश्वरसिद्धिः, तथाहि ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयुक्तः धृतित्वात्, उत्पतत्पतत्रिपतनाभाववत्, तत्पतत्रिसंयुक्ततृणादिष्टतिवद्वा; एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः तेषां तदधिष्ठानदेशानामीश्वरावेशेनैव पतनाभाववत्त्वात्, तथा च श्रुतिः - " एतस्य चाक्षरस्य प्रशासने गार्गि ! द्यावा-पृथिव्यौ विष्टते तिष्ठतः” [बृह. उ. ३/८/९ ] इति, प्रशासनंदण्डभूतः प्रयत्नः, आवेशस्तच्छरीरावच्छिन्नप्रयत्नवत्त्वमेव, सर्वावेशनिबन्धन एव च सर्वतादात्म्यव्यवहारः “आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम् " [ छां. उ. ७/२५/२] इत्यादिः । कार्यायोजनधृत्यादेरित्यत्राऽऽदिपदान्नाशस्य ग्रहणं; तथा च नाशादपि ईश्वरः सिध्यति, तथाहि- ब्रह्माण्डनाशः प्रयत्नजन्यो नाशत्वात्, पाट्यमानपटनाशवदिति उदयनाचार्यास्तूक्तमेवार्थमित्थं परिष्कृत्याहुः तथाहि - “टतेः खल्वपि क्षित्यादि ब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारक प्रयत्नाधिष्ठितं गुरुवे सत्यपतनधर्मकत्वात्, वियति विहङ्गमशरीरवत्, तत्संयुक्तद्रव्यवच्च; एतेन इन्द्राग्नियमादिलोकपालप्रतिपादका अध्यागमा व्याख्याताः सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः, आत्मैवेदं सर्वमिति, यथा एक एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि; अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत् ?, तद्भावेऽपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्, कारणैकदेशस्य च कारणान्तरं प्रत्यनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् ; शरीरस्थितिरेवं न त्वन्यस्थितिरिति चेत् ?, न-प्राणेन्द्रिययोः स्थितेरव्यापनात्, प्राङ्न्यायेनापास्तत्वाच्च, अत्राप्यागमः"एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विष्टते तिष्ठतः " [ बृह. उ. ३|८|९] इति, प्रशासनं - दण्डभूतः प्रयत्नः । “उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः । ८२ तृतीयः wwww यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः ॥ " [भ.गी. १५/१७ ] इति स्मृतिः, अत्रोत्तमत्वम् - असंसारित्वं सर्वज्ञत्वादि च परमत्वं - सर्वोपास्यता, लोकत्रयमिति सर्वोपलक्षणम्, आवेशो - ज्ञानचिकीर्षाप्रयत्नवतः संयोगः, भरणं-धारणम्, अव्ययत्वम्-आगन्तुकविशेषगुणशून्यत्वम्, ऐश्वर्यं -संकल्पाप्रतिघातः, इति; एतेन
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy