SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः शरीरस्य लक्ष्यमाणत्वात् , सामान्यविशेषश्चेष्टात्वं, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेत् ?, न-क्रियामात्रेणैव तदुन्नयनात् ; भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत् ?, तर्हि तद्विश्रान्तत्वमेव तस्य, न चैतावतैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते, विशेषस्य विशेष प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् , अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् । एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् ; अत्राप्यागमसंवादः “यदा स देवो जागर्ति, तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा, तदा सर्वं निमीलति ॥ १ ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वभ्रमेव वा ॥ २ ॥ मयाऽध्यक्षेण प्रकृतिः, सूयते सचराचरम् । तपाम्यहमहं वर्ष, निगृह्णाम्युत्सृजामि च ॥ ३॥” इत्यादि । अत्र जागर-स्वापौ सहकारिलाभालाभौ, ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वं च हेतू दर्शितौ परमाण्वादिसाधारणौ, स्वर्ग-श्वभ्रे चेष्टानिष्टोपलक्षणे, एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते-मयेत्यादिना, न केवलं प्रेरणायामधिष्ठाता, अपि तु प्रतिरोधेऽपि, यो हि यत्र प्रभवति, स तस्य प्रेरणावद् धारणेऽपि समर्थः, यथाऽर्वाचीनः शरीर-प्राणधारणयोरिति दर्शितं-"तपामीत्यादिना", अत्राप्यागम इत्यत्रापिना कार्यहेतुकेश्वरसिद्धौ य आगमसंवादः स्वयमुपदर्शितः प्राक् तस्य सूचनम् , स चेत्थमुल्लिखितः-"तमिममर्थमागमः संवदति विसंवदति च परेषां विचारम् “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात् ।। संबाहुभ्यां धमति सम्पतत्रै-वा-भूमी जनयन् देव एकः" [श्वेताश्व. उ.३।३] अत्र प्रथमेन सर्वज्ञत्वं चक्षुषा दृष्टरुपलक्षणात्, द्वितीयेन सर्ववक्तृत्वं मुखेन वागुपलक्षणात् , तृतीयेन सर्वसहकारित्वं बाहुना सहकारित्वोपलक्षणात् , चतुर्थेन व्यापकत्वं पदा व्याप्तेरुपलक्षणात् , पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वं, तो हि लोकयात्रावहनाद बाहू, षष्टेन परमाणुरूपप्रधानाधिष्ठेयत्वं, ते हि गतिशीलत्वात् पतत्रव्यपदेशाः पतन्तीति, सन्धमति सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः, तेन संयोजयति समुत्पादयन्नित्यर्थः, द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणं, भूमीत्यधस्तात् , 'एकः' इत्यनादितेति, स्मृतिरपि ६ शास्त्र०स.द्वि.
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy