________________
शास्त्रवार्तासमुच्चयः ।
[तृतीयः प्रयत्नजन्यत्वं तत्र चेष्टात्वं, क्रियात्वं च परमाणुक्रियायामप्यस्ति तत्र न चेष्टात्वमित्येवं साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधिलक्षणाक्रान्तत्वाञ्चेष्टात्वमुपाधिरिति चेत् ? किं तत् ? प्रयत्नजन्यक्रियात्वं चेष्टात्वमिति चेत् ? प्रयत्नजन्यक्रियात्वमेव साध्यं तस्यैव तत्साधने उपाधित्वासम्भवात् , हेतुव्यापकतयाऽभिमतस्यैव साध्यतयाऽभिमतत्वेन हेतुव्यापकस्य साध्यस्य साधनाव्यापकत्वाभावेनोपाधिलक्षणानाक्रान्तत्वात् ; हिता-ऽहितप्राप्ति-परिहारफलकक्रियात्वं चेष्टात्वमिति चेत् ? न-विषभक्षणा-ऽहिलङ्घनादीनामपि चेष्टात्वेन लक्ष्यतया तेषु हिता-ऽहितप्राप्ति-परिहारफलकत्वाभावेनाव्याप्तेः; शरीरसमवायिक्रियात्वं चेष्टात्वमिति चेत् ? न-मृतशरीरक्रियायामपि शरीरसमवायिक्रियात्वं समस्ति, न च सा, चेष्टेत्यलक्ष्ये लक्षणगमनादतिव्याप्तः, जीवच्छरीरसमवायिक्रियात्वं चेष्टात्वमिति चेत् ?, न-नेत्रस्पन्दादेरतथात्वात् ; स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वं चेष्टात्वम्, शरीरपदोपादानान्न ज्वलन-पवनादिक्रियाऽतिव्याप्तिरिति चेत् ? नशरीरत्वं चेष्टावत्त्वं, चेष्टात्वं च स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वमित्येवमन्योऽन्याश्रयात् ; चेष्टात्वं सामान्यविशेषो यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेत् ?, न-क्रियामात्रेण तदुन्नयनात् , तदुक्तं कुसुमाञ्जलावुदयनाचार्येण
"स्वातत्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् ।
हेत्वभावे फलाभावो, विशेषस्तु विशेषवान्" ॥ १ ॥ परमाण्वादयो हि चेतनायोजिताः प्रवर्तन्ते, अचेतनत्वात् , वास्यादिवत् , अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः, अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् , क्रियाविशेषविश्रान्तोऽयमर्थो न तु तन्मात्रगोचरः; चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् ?, अथ केयं चेष्टा नाम ?, यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया प्रयत्नमात्रकारणिका वेति विवक्षितं, तन्न-तस्यैव तत्रानुपाधित्वात् ; अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् , तन्न-विषभक्षणोद्वन्धनाद्यव्यापनात् ; इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् ?, कर्तारं प्रत्यन्यं वा, उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः, भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च; शरीरसमवायिक्रियात्वं तदिति चेत् ?, न-मृतशरीरक्रियाया अपि चेतनत्वप्रसक्तेः; जीवत इति चेत् ?, न-नेत्रस्पन्दादेश्वेतनाधिष्ठानाभ्युपगमप्रसङ्गात् ; स्पर्शवव्यान्तराप्रयोगे सतीति चेत् ?, न-ज्वलन-पवनादौ तथाभावाभ्युपगमापत्तेः; शरीरस्य स्पर्शवव्यान्तराप्रयुक्तस्येति चेत् !, न-चेष्टयैव