________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ज्ञानेच्छावत्त्वेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यम् , मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् ; न च मिलितमपि निरुक्तत्रितयमपि सर्गान्तरीयज्ञानादिकमादाय समस्त्येवेति सिद्धसाधनं तदवस्थमिति वाच्य, कृतेरव्यवहितपूर्ववर्तिन एव जनकत्वेन सर्गान्तरीयकृतिमत्त्वस्यैतत्सर्गीयद्रव्येऽभावात् , ज्ञानेच्छयोरपि जन्ययोः स्वजन्यकृतिद्वारेणैव कारणत्वेनैतत्सर्गीयकृतेस्तजन्यत्वाभावेन तद्व्यापारत्वासम्भवात् सर्गान्तरीयज्ञानेच्छाभ्यां सममेतत्सर्गीयकृतेरेतत्सर्गकार्योपयोगिमिलनासम्भवात् ; न चैवं सिद्धसाधनाभावेऽपि सन्तिरीयज्ञानादिमत्त्वसाधनतोऽर्थान्तरमेवास्त्विति वाच्यं, सर्गाद्यकालीनं द्रव्यं ज्ञानवत् , कार्यत्वादित्येवमनुमाने पक्षतावच्छेदककालावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् सर्गाद्यकालेऽस्मदादीनां ज्ञानाभावात् पूर्वसर्गीयज्ञानादेः सर्गाद्यकालीनद्रव्ये कथमपि जनकत्वासम्भवादीश्वरज्ञानवत्त्वमादायैवोक्तानुमितेः सम्भवः” इत्यप्याहुः ॥
‘क्षित्यादिकं सकर्तृकं कार्यत्वात्' इत्येवानुमानम्, न च क्षित्यादीत्यात्रादिपदाद् यस्य कस्यचिदकुरादेः परिग्रहे तदन्यस्मिन् कार्य सकर्तृकत्वं न सिद्धयेत् , तदन्यकार्यकर्तृतयाऽपीश्वरसिद्धिराकासिता, प्रत्येक पक्षत्वे युगसहस्रेणापि प्रत्येकं सकलकार्याणामुपादानासम्भवात् सकलविवादापन्नकार्यकर्तृत्वेनाभिमताया ईश्वरसिद्धेरभावः स्यादिति वाच्यं, प्रकृतविचारानुकूलविवादविषयत्वेन क्षित्यादीनामनुगमसम्भवात् ; न च ज्ञानादीनामेव कार्य प्रति कारणत्वं न कर्तुरिति का समं क्षित्यादीनां कार्यकारणभावसम्बन्धासम्भवात् कर्तृनिरूपितसम्बन्धलक्षणं सकर्तृकत्वं दुर्निरूपमिति वाच्यं, घटः कुलालकर्तृकः पटस्तन्तुवायकर्तृक इत्यादिव्यवहारसाक्षिकस्य घटादिदृष्टान्तदृष्टस्य नित्यवर्गव्यावृत्तस्य प्रतिनियतकर्तृनिरूपितसम्बन्धलक्षणस्य सकर्तृकत्वस्य विशिष्य ख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यत्वादित्यपि केचित् ।
आयोजनादपीश्वरसिद्धिः, आयुज्यते-संयुज्यतेऽन्योऽन्यं द्रव्यमनेनेत्यायोजन, ब्यणुकारम्भकसंयोगजनकं सर्गाद्यकालीनपरमाणुकर्मात्र विवक्षितं, 'तत् प्रयत्नजन्य कर्मत्वात् , अस्मदादिशरीरकर्मवत्' इत्यनुमानात् ; परमाणोरेव तादृशप्रयत्नवत्त्वे जडताहानिः स्यात् , समवायेन प्रयतं प्रति समवायेन ज्ञानेच्छयोः कारणत्वेन समवायेन ज्ञानवत्त्वे सत्येव तत्र प्रयत्नवत्त्वं भवेत् , तथा च ज्ञानशून्यत्वलक्षणं जडत्वं तत्र न स्यात् , दृष्टहेत्वनपेक्षस्यादृष्टस्यैव सर्गाद्यकालीनपरमाणुकर्मकारणत्वं तु न युक्तिसहं, तथा सति कार्यमानं प्रति दृष्टहेत्वनपेक्षस्यादृष्टस्य हेतुत्वसम्भवाद् दृष्टहेतूनामुच्छेदप्रसङ्गात् । ननु चेष्टात्वमेव प्रयत्नजन्यतावच्छेदकमिति यत्र