________________
७८
शास्त्रवार्तासमुच्चयः।
[तृतीयः स्वजनकत्वं मानाभावादिति विभाव्यते तदा पक्षे स्वजनकादृष्टजनकान्यत्वं नोपादेयं, तदन्तरेणापि तादृशकांश्यादिगमनस्य स्पर्शजन्यादृष्टद्वारा स्वोपादानकांश्यगोचरस्पर्शजनकजन्यकृतिजन्यत्वाभावेन पक्षत्वसंभवेन तत्र संदिग्धानकान्तिकत्वस्यादोषत्वात् , साध्ये तु स्वजनकादृष्टजनकान्यत्वमुपादेयमेव, अन्यथा सर्गान्तरीयज्ञानादीनां व्यणुकाधुपादानागोचरत्वेन ब्यणुकादौ सिद्धसाधनाभावेऽपि मन्त्रविशेषपाठपूर्वकस्पर्शजन्यकांश्यादिगमनादावदृष्टजनककृतिजन्यत्वसिध्यार्थान्तरतापत्तेवस्तुगत्या स्वोपादानगोचरकृतिजन्यं यत् तत्त्वावच्छिन्नभेदकूटवत्त्वेन काश्यचालनादेरपि पक्षान्तर्गतत्वात्" इत्याहुः, अत्रेश्वरज्ञान-चिकीर्षाकृतीनां जन्यमानजनकत्वे स्वजनकादृष्टजनकत्वमप्यस्तीति कथं स्वजनकादृष्टजनकान्यत्वमिति नाऽऽशयम्,. अदृष्टस्य व्यापारत्वनिर्वाहकं यत् समवायसम्बन्धेनादृष्टं प्रति समवायसन्बन्धेन जनकत्वं तदेवात्र प्रविष्टम् , ईश्वरज्ञानादीनां तु न समवायसम्बन्धेनादृष्टं प्रति समवायसम्बन्धेन कारणत्वम् , ईश्वरेऽदृष्टाभावात् , किन्तु जीवगतादृष्टं प्रत्येव तथा, तत्र च कारणतावच्छेदकसम्बन्धः स्वाश्रयसंयोगादिरेवेति । __ अन्ये तु–“जन्यद्रव्याणि ज्ञानेच्छा-कृतिमन्ति, कार्यत्वात् , कपालवत् , अत्र साध्यतावच्छेदकसम्बन्धो विशेष्यत्वं, हेतुतावच्छेदकसम्बन्धः स्वरूपसम्बन्धः, पक्षे जन्यत्वविशेषणोपादानादात्मादिनित्यद्रव्ये निरुक्तसाध्य-साधनयोरभावेऽपि नांशतो बाध-स्वरूपासिद्धी; यदि च कपालं घटोपादानमिति ज्ञानं, कपालं घटवजायतामितीच्छा, कपालं घटवदिति कपालविशेष्यकघटप्रकारककृतिश्च घटस्य कारणम् , एवं पटादीनामपि, तदा कपालवदिति दृष्टान्तस्वारस्याद् द्रव्याणीत्येव पक्षः, हेतुश्च समवायसम्बन्धेन कार्यवत्त्वं समवायसम्बन्धावच्छिन्नकार्यनिष्ठनिरूपकतानिरूपिताधिकरणत्वं, साध्यतावच्छेदकहेतुतावच्छेदकसम्बन्धौ चोपदर्शितावेव, कार्यवत्त्वादित्यस्य स्थाने कार्यादित्येवं हेतोरुपादाने समवायसम्बन्ध एव हेतुतावच्छेदकसम्बन्धः, नित्यद्रव्येऽप्यात्मादौ ज्ञानादिगुणानां मनसि च परत्वादिगुणस्य कर्मणश्चोत्पादान्न बाधस्वरूपासिद्धी । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वान्नांशतः सिद्धसाधनम् ; न च बहिरिन्द्रियग्राह्यत्वमुपाधिः, तस्य कपालादौ साध्यव्यापकत्वं, ड्यणुकादौ च साधनाव्यापकत्वमिति वाच्यम्, अनुकूलतर्केण प्रकृतहेतोः प्रकृतसाध्यव्याप्यत्वनिर्णये उपाधेरनवकाशात्, न च ज्ञान-चिकीर्षा-प्रयत्नानां प्रत्येकरूपेणैव ज्ञानत्वादिना कार्य प्रति कारणत्वं न तु मिलितत्वेनेति मिलितस्य त्रितयस्य ज्ञानेच्छायत्नस्य साध्यत्वे कार्यकारणभावरूपानुकूलतर्काभावादप्रयोजकत्वं, प्रत्येकं तेषां साध्यत्वे