SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः कत्वं स्यात्, एवं स्वोपादानशरीरगोचरोलचरणादितपःकृतिजन्यकाल-शरीरीयगौररूपादौ संदिग्धानैकान्तिकत्वं स्यात् , अतः प्रतियोगिककोटौ स्वजनकादृष्टाजनकेति प्रवेशः, एवं च काश्यचालनादिकं स्वजनकादृष्टजनकजन्यकृतिजन्यमेव न तु स्वजनकादृष्टाजनककृतिजन्यमिति स्वपदेन तद्रहणं न सम्भवति, किन्तु तदन्येषामेव घटादीनां, तद्भिन्नं च कांश्यचालनादिकमिति भवति तस्य पक्षत्वम् , ध्वंसोऽपि तादृशकृतिजन्यभिन्नो जन्यश्चेति तस्य पक्षत्वे तत्र साध्याभावादशतो बाधः स्यात् , तद्वारणाय समवेतमिति, ध्वंसस्य समवेतत्वाभावान्न पक्षत्वमिति तत्र निरुक्तसाध्याभावेऽपि न क्षतिः, गगनैकत्वादिकं च नित्यत्वादेव न तादृशकृतिजन्यं गगनादौ समवेतं चेति तस्य पक्षत्वे तत्र निरुक्तसाध्याभावादंशतो बाध इति तद्वारणाय जन्यमिति, तस्य जन्यत्वाभावान्न पक्षत्वमिति तत्र निरुक्तसाध्याभावेऽपि न दोषः, एवं तत्र कार्यत्वहेतोरभावेऽपि न स्वरूपासिद्धिः । साध्ये स्वोपादानगोचरेत्यस्यापरोक्षज्ञानचिकीर्षाकृतिविशेषणतयाऽप्रवेशे प्रागुक्तदिशा पक्षतावच्छेदकाक्रान्तत्वेन पक्षीभूते शब्दफूत्कारादौ स्वजनकादृष्टजनकान्यमृदङ्गादिगोचरास्मदाद्यपरोक्षज्ञानचिकीर्षाकृतिजन्यत्वस्य सिद्धत्वेनांशतः सिद्धसाधनं स्यात् , तद्वारणायापरोक्षज्ञानादिविशेषणतया स्वोपादानगोचरेत्यस्योपादानम्, अस्मदाद्यपरोक्षज्ञान-चिकीर्षा-प्रयत्नाश्च न शब्दोपादानगगनफूत्कारोपादानवाय्वादिगोचरा इति न सिद्धसाधनम् , मन्त्रविशेषपाठपूर्वकस्पर्शजन्यकांश्यादिगमनादौ चोक्तदिशा पक्षतावच्छेदकाक्रान्तत्वात् पक्षीभूते तदुपादानकांश्यादिगोचरास्मदाद्यपरोक्षज्ञानचिकीर्षाकृतिजन्यत्वस्य सिद्धत्वेनांशतः सिद्धसाधनं स्यात् तद्वारणाय स्वजनकादृष्टजनकान्येत्यपरोक्षज्ञानचिकीर्षाकृतिविशेषणतयोपात्तम् , तत्रास्मदाद्यपरोक्षज्ञानचिकीर्षा-कृतीनां काश्यादिचालनजनकादृष्टजनकत्वेन तादृशजनकान्यत्वविरहान्न सिद्धसाधनावकाशः; न च पक्षे साध्ये च स्वोपादानगोचरेति न प्रवेश्यं, मृदङ्गादिगोचरकृतिजन्यशब्दादिस्तु पक्षबहिर्भूत एव दृष्टान्तोऽस्त्विति वाच्यम् , अदृष्टेतरव्यापारद्वाराऽस्मदादिकृतिजन्यत्वसिद्धयाऽर्थान्तरवारणाय साध्ये तन्निवेशावश्यकत्वे, शब्दादावनैकान्तिकत्वसंशयवारणाय पक्षेऽपि तन्निवेशावश्यकत्वात् , तादृशशब्दादिकर्तृतयाऽपि भगवत्सिद्धये पक्षे तन्निवेशेऽशतः सिद्धसाधनवारणाय साध्ये तन्निवेशावश्यकत्वाच्च । मन्त्रविशेषपाठपूर्वकस्पर्शजन्यकांश्यचालनादिकर्तृतयाऽपीश्वरसिद्ध्यर्थ पक्षे स्वजनकादृष्टजनकान्यत्वविशेषणोपादानस्यावश्यकर्त्तव्यत्वे साध्येऽपि स्वजनकादृष्टजनकान्यत्वनिवेशस्यावश्यकत्वात् , यदि च स्वजनकादृष्टजनककृतेर्न
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy