SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [तृतीयः जन्यं स्वोपादानगोचरस्वजनकादृष्टजनकान्यापरोक्षज्ञान-चिकीर्षाकृतिजन्यम् , कार्यत्वात् , अत्र प्रथमजन्यान्तेन पक्षनिर्देशः, द्वितीयजन्यान्तेन साध्यनिर्देश इति बोध्यम् , अत्र समवेतं जन्यमित्येतावन्मात्रस्य पक्षीकरणे घटादिरपि पक्षः स्यात्, तत्र स्वोपादानगोचरस्वजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाकृतिजन्यत्वं सिद्धमेव, कुलालाऽपरोक्षज्ञान-चिकीर्षा-कृतीनां घटाधुपादानगोचरत्वाद् घटादिजनकादृष्टजनकान्यत्वाच्च तजन्यत्वं घटादौ समस्तीत्यंशतः सिद्धसाधनं स्यात् , तद्वारणाय तदजन्यान्तमिति, तस्य स्वोपादानगोचर-स्वजनकादृष्टाजनककृतिजन्यं यत् स्वं तद्भिन्नमित्यर्थः, तेन व्यणुकादेरपि पक्षत्वं सम्भवति, यतः स्वं घटादि तदुपादानगोचर-घटादिजनकादृष्टाजनककुलालकृतिजन्यं यत् स्वं तद्घटादि तदिन्नं घ्यणुकादि । भवतीति, अन्यथा तदजन्यस्यैव स्वपदेन ग्रहणे ब्यणुकादिकं ग्रहीतुं न शक्यते, यतः स्वं व्यणुकादि तदुपादानं परमाण्वादि तद्गोचरा व्यणुकाजनकादृष्टाजनिका काऽपि कृतिर्न संभवति, अस्मदादिकृतेः परमाण्वादिगोचरत्वाभावात् , ईश्वरकृतेश्च 'परमाण्वादिगोचरत्वेऽपि न्यणुकादिजनकादृष्टजनकत्वस्यैव भावेन तादृशादृष्टाजनकत्वाभावादिति तादृशकृत्यप्रसिद्धया तदजन्यमप्रसिद्धं स्यादिति स्वपदेन घ्यणुकादेरग्रहणे तस्य पक्षत्वाभावः प्रसज्येतेति, प्रतियोगिकोटौ स्वोपादानगोचरेत्यस्याप्रवेशे शब्दफूत्कारादेः पक्षत्वं न स्यात् , यतः स्वपदेन शब्दफूत्कारादिकं ग्रहीतुं शक्यते तजनकादृष्टाजनिका कृतिर्मुदङ्गादिगोचरकृतिस्तजन्यं यत् स्वं तच्छब्दादि तद्भिन्नं शब्दादि न भवतीति शब्दफूत्कारादेरपक्षत्वे संदिग्धसाध्यकत्वेन तत्रानैकान्तिकत्वसंशयः स्यादतः प्रतियोगिकोटौ स्वोपादानगोचरेत्यस्य प्रवेशः, एवं च स्वपदेन शब्द-फूत्कारादेर्ग्रहणं न संभवति, अस्मदादिकृतेस्तदुपादानगगनवाय्वादिगोचरत्वाभावात् , ईश्वरकृतेस्तदुपादानगगनवाय्वादिगोचरत्वेऽपि शब्दफूत्कारादिजनकादृष्टजनकत्वस्यैव भावेन तादृशादृष्टाजनकत्वाभावात्, तादृशकृतिजन्यं घटायेव तद्भिन्नं शब्दफूत्कारादीति तस्य पक्षत्वमुपपन्न प्रतियोगिकोटौ स्वजनकादृष्टाजनकेति कृतिविशेषणतयाऽनुपादाने यद्यपि कृतौ जन्यत्वविशेषणमुपादेयमेव, अन्यथा स्वपदेन जन्यसमवेतमात्रस्यैव ग्रहणं भवेत् , तदुपादानगोचरेश्वरकृतिजन्यत्वस्य सद्भावान्न द्वयणुकादीनां पक्षत्वं स्यात् , तथाऽप्यस्त्वीश्वरकृतिवारणाय जन्येति विशेषणं, तद्वारणाय स्वजनकादृष्टाजनकेति न प्रवेश्यम् , तत्र तदप्रवेशे मन्त्रविशेषपाठपूर्वकस्पर्शजन्यकांश्यादिगमनस्य स्पर्शजन्यादृष्टद्वारा स्वोपादानकांश्यगोचरस्पर्शजनककृतिजन्यस्यापक्षत्वे तत्र संदिग्धानैकान्ति
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy