________________
७५
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलित. परोक्षज्ञानादेरेव कारणत्वेन कर्तुरजनकतया कार्यमाने कर्तृजन्यत्वाभावाद् बाधोऽपीति चेत् ?, न-कार्यत्वेन हेतुना प्रत्यक्षजन्यत्वेच्छाजन्यत्वादेरेव साधनीयत्वेनोक्तदोषाभावात् ; न चैवमपि अस्मदादिज्ञानस्यादृष्टद्वारा जन्यमेव कार्यजातमिति सिद्धसाधनं तदवस्थमेवेति वाच्यम् , अदृष्टाद्वारकज्ञानादिजन्यत्वस्यैव साध्यत्वात् ; अथवा विशेष्यत्वसम्बन्धावच्छिन्नज्ञानादिनिष्ठजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्यत्वमेव साध्यम् , अस्मदादिज्ञानादिनिष्टजनकता च स्वजन्यादृष्टवदात्मसंयोगादिसम्बन्धावच्छिन्ना, न तु विशेष्यत्वसम्बन्धावच्छिन्नेति नोक्तसिद्धसाधनावकाशः, अत एव नास्मदादिज्ञानजन्यत्वमादायार्थान्तरमपि । अथ यत्र यत्र सकर्तृकत्वं तत्र शरीरजन्यत्वं, यत्र यत्र कार्यत्वं तत्र शरीरजन्यत्वमिति नियमो नास्ति क्षित्यादौ व्यभिचारादित्येवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाच्छरीरजन्यत्वमत्रोपाधिः; न चाङ्करादौ सकर्तृकत्वं नास्तीति न निश्चयः किन्तु सकर्तृत्वस्य सन्देह एव, तत्र शरीरजन्यत्वं नास्तीति निश्चय एवेति सकर्तृकत्ववत्तया संदिग्धे शरीरजन्यत्वरूपोपाधेरभावनिश्चयान्न साध्यव्यापकत्वनिश्चयस्तत्रेति वाच्यम् , इत्थं साध्यव्यापकतानिश्चयाभावेऽप्यकुरादौ साध्यव्यापकतासंदेहेन शरीरजन्यत्वस्य सन्दिग्धोपाधितासम्भवात् , संदिग्धोपाधिशरीरजन्यत्वव्यभिचारेण कार्यत्वे सकर्तृकत्वव्यभिचारसंशयतोऽनुमानप्रतिबन्धसम्भवात् , व्यभिचाराभावाप्रकारकव्यभिचारप्रकारकहेतुविशेष्यकज्ञानत्वरूपव्यभिचारनिश्चयत्वापेक्षया व्यभिचारप्रकारकहेतुविशेष्यकज्ञानत्वेनैव व्यभिचारज्ञानस्य व्याप्तिज्ञानं प्रति प्रतिबन्धकत्वात् , यद्यपि कार्यत्वस्य पक्षतावच्छेदकत्वेऽङ्करस्यापि पक्षत्वमेव जन्यक्षितित्वस्य पक्षतावच्छेदकत्वेऽङ्करस्य पक्षत्वाभावेऽपि संदिग्धं साध्यं यथा जन्यक्षितौ तथाऽङ्करेऽपीति साध्यप्रकारकसंदेहविशेष्यत्वेन पक्षसमत्वमङ्कुरस्य, उभयथाऽपि व्यभिचारशङ्कानिवर्तकतर्काभावे तत्र व्यभिचारसंशयस्य दोषत्वादिति चेत् ? न-प्रकृते ज्ञानत्वादि-कार्यत्वाभ्यां हेतुहेतुमद्भावनिश्चयात् , लाघवतर्कावतारे तदुपाधिसंशयस्याविरोधित्वात् , अनुकूलतर्कानवतार एव संदिग्धोपाधेय॑भिचारसंशयाधायकत्वात् , अनुकूलतर्कावतारे सत्यपि संदिग्धोपाधेर्व्यभिचारसंशयाधायकत्वे पर्वतो वह्निमान् धूमादिति प्रसिद्धानुमानेऽपि पर्वते वह्निसंदेहेन पर्वतेतरत्वे वह्निव्यापकत्वसंदेहेन सन्दिग्धोपाधित्वेन पर्वते संदिग्धोपाधिपर्वतेतरत्वव्यभिचारेण धूमे वह्निव्यभिचारसंशयतो व्याप्तिग्रहप्रतिबन्धाद् वह्नयनुमानस्याप्युच्छेदप्रसङ्गादित्येके आमनन्ति ।
परे तु-"स्वोपादानगोचरा या स्वजनकादृष्टाजनिका कृतिस्तदजन्यं समवेतं