________________
७४ शास्त्रवार्तासमुच्चयः।
[तृतीयः सत्त्वात् तयोश्च सकर्तृकत्वाभाव इति तावन्मात्रस्य हेतूकरणे व्यभिचारः स्यात् तद्वारणाय सत्त्वस्य विशेष्यतया प्रवेशः, प्रागभावप्रतियोगित्वे सतीत्यस्य यदा हेतौ प्रवेशस्तदा तावन्मात्रस्य हेतूकरणे तस्य ध्वंसे सत्त्वात् तत्र सकर्तृकत्वाभाव इति व्यभिचारवारणाय सत्त्वस्य तत्रोपादानम् , ध्वंसप्रतियोगित्वे सतीत्यस्य निवेशे तावन्मात्रस्य हेतूकरणे प्रागभावे व्यभिचार इति तद्वारणाय सत्त्वस्योपादानम् ; कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सतीत्यत्र कालवृत्तित्वमत्यन्ताभावे दैशिकविशेषणतासम्बन्धेन बोध्यम् , प्रतियोगित्वे च कालिकसम्बन्धावच्छिन्नत्वं विशेषणं देयम् , तेन सर्वस्यैव पदार्थस्य कालिकसम्बन्धेन कालवृत्तित्वमिति कालिकसम्बन्धावच्छिन्नात्मादिनित्यनिष्ठप्रतियोगिताकात्यन्ताभावस्य काले कालिकसम्बन्धेन वृत्तित्वेऽपि न नित्ये आत्मादौ व्यभिचारः, नित्ये कालिकायोगात् कालिकसम्बन्धावच्छिन्ननित्यनिष्ठप्रतियोगिताकात्यन्ताभावो नित्य एव प्रसिद्धः, न वा संयोगादिसम्बन्धावच्छिन्नात्मादिनित्यनिष्ठप्रतियोगिताकात्यन्ताभावस्य काले दैशिकविशेषणतया वृत्तेस्तत्प्रतियोगित्वेऽपि नित्ये व्यभिचारः, तथा चोभयत्र सम्बन्धविशेषस्य प्रवेशात् कालवृत्तित्वस्याधिकस्य प्रवेशाद् गौरवमतो लाघवात् प्रागभावप्रतियोगित्वे सतीति द्वितीयकल्पादरणम् ; नवीनैः शिरोमण्यादिभिः प्रागभावानङ्गीकारात् तन्मतसाधारण्येन प्रागभावप्रतियोगित्वे सतीति विशेषणं न सम्भवतीति ध्वंसप्रतियोगित्वे सतीति तृतीयकल्पादरः। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाच्च न कार्यस्य घटादेः सकर्तृत्वसिद्ध्यांशतः सिद्धसाधनं दोषः, पक्षतावच्छेदकावच्छेदनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरेव प्रतिबन्धकत्वेन पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरप्रतिबन्धकत्वेन तत्सत्त्वेऽपि निरुक्तानुमितिः संभवत्येव, पक्षतावच्छेदकावच्छेदेन साध्यानुमितौ च पक्षतावच्छेदकव्यापकसाध्यप्रतियोगिकसाध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वं पक्षे भासते, पक्षतावच्छेदकहेतुत्वेऽपि तत्र साध्यसामानाधिकरण्यमेव व्याप्तिज्ञाने भासते इति व्याप्तिग्रहे सति व्याप्तिघटकतया कार्यत्वं सकर्तृकत्वसमानाधिकरणमिति सहचारग्रहेऽपि कार्य सकर्तृकमित्यनुमित्यात्मकबुद्धेरभावात् पक्षतावच्छेदकस्य हेतुत्वेऽपि न क्षतिः; ननु तथाऽपि सकर्तृकत्वं यदि कर्तृसहितत्वं तदाऽस्मदाद्यात्मलक्षणका व्यापकीभूतेन सहितत्वस्य संयोगित्वलक्षणस्य कार्यमाने सत्त्वात् सिद्धसाधनात्, यदि च कर्तृजन्यत्वं सकर्तृकत्वं, तदा कार्यमात्रस्यादृष्टजन्यत्वेनादृष्टद्वाराऽस्मदाद्यात्मलक्षणकर्तजन्यत्वसद्भावात् सिद्धसाधनम् , तथा कार्य प्रति स्वोपादानगोचरा