________________
स्तबकः]]
स्याद्वादवाटिकाटीकासङ्कलितः
अज्ञ इति-स्वेष्टानिष्टप्रवृत्तिनिवृत्तिसाधनज्ञानलक्षणविवेकविकल इत्यर्थः, जन्तुः प्राणी, अयं भवे भ्रमणशीलत्वेन प्रत्यक्षत एवोपलभ्यमानः, संसारीति यावत् , आत्मनः स्वस्य, सुख-दुःखयोः चक्रपरिवर्तनवदनवरतं यथाक्रमं जायमानसुख-दुःखयोः, इदमुपलक्षणं सुखदुःखसाधनविषयाणामपि, यत् स्वकर्तव्यं तत्र सर्वत्रेति यावत् , अनीशः अप्रभुः, कर्तुमकर्तुमन्यथा कर्तुं वा समर्थो न भवति, एतदुपपत्तये अज्ञ इति विशेषणम् , अज्ञानां पश्वादीनां प्रवृत्तिः परप्रेरणयैव भवतीत्यवस्ततया ईश्वरप्रेरितः अस्येदं हितमिदं चाहितमित्येवं ज्ञात्रा परमेश्वरेण प्रेरितः सन् , स्वर्ग
"यन्न दुःखेन संभिन्नं, न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च, तत् सुखं स्वःपदाऽऽस्पदम् ॥ १ ॥" इत्येवंलक्षणलक्षितसुखविशेषोपभोगस्थानं, वा अथवा, श्वभ्रमेव निरन्तसुखामिश्रितदुःखभोगैकस्थानं नरकमेव, गच्छेत् तत्रोत्पद्येत, न केवलं प्राणिन एवाज्ञस्य प्रेरक ईश्वरः किन्तु सर्वथा चैतन्यरहितत्वेन जडस्यापि कारणस्य स्वस्वकार्ये प्रतिनियतव्यापार ईश्वरप्रयत्नादेव अचेतनस्यापि वास्यादेश्चेतनाधिष्ठितस्यैव छिदादिकार्यकरणत्वोपलब्धेः,
"मयाऽध्यक्षेण प्रकृतिः, सूयते स चराचरम् ।
तपाम्यहमहं सर्वं, निगृह्णाम्युत्सृजामि च ॥" [ इत्यागमेन सर्वाधिष्ठानत्वं भगवतः श्रूयत इति पातञ्जलाः । नैयायिकास्तु वदन्ति
"कार्या-ऽऽयोजन-इत्यादेः, पदात् प्रत्ययतः श्रुतेः । वाक्यात् सङ्ख्याविशेषाच्च, साध्यो विश्वविदव्ययः ॥ १ ॥"
[कुसुमाञ्जलिपञ्चमस्तबके-१] इति । अस्यार्थः-कार्यादीश्वरसिद्धिः-कार्य सकर्तृकं कार्यत्वादित्यनुमानात् , न च कर्तुरीश्वरस्य सिद्धावेव कृतिसाध्यत्वलक्षणं कार्यत्वं पृथिव्यादौ सिध्यति, ईश्वरस्तु नाद्यापि सिद्ध इति निरुक्तकार्यत्वलक्षणं साधनं पृथिव्यादावसिद्धमिति वाच्यं, कालवृत्त्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् , सत्यन्तत्रयमध्यादेकं सत्यन्तमुपादेयं, तत्र कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सतीति यदा निविशते, तदा तस्य ध्वंस-प्रागभावयोरपि