________________
७२
शास्त्रवार्तासमुच्चयः ।
[तृतीयः स्थानं सुप्तावस्था, अभिव्यक्तस्यापि सहकार्यभावात् कार्याजननं तन्ववस्था, अभिव्यक्तस्य जनितकार्यस्यापि केनचिद् बलवता सजातीयेन विजातीयेन वा लब्धवृत्तिकेनाभिभवाद् भविष्यदृत्तिकत्वेनावस्थानं विच्छिन्नावस्था, अभिव्यक्तस्य प्राप्तसहकारिसम्पत्तेरप्रतिबन्धेन लब्धवृत्तिकतया स्वकार्यकरत्वम्-उदारावस्था, तत्राऽऽद्यमवस्थाद्वयं प्रतिप्रसवाख्येन निर्बीजसमाधिना हीयते, अन्त्यं तु शुद्धसत्त्वमयेन भगवद्ध्यानेनेति, अविद्याभावात् तन्नाशजन्यं कथं तत्त्वज्ञानं तस्येति चेत् ? अत एव नित्यं तत् , नित्यज्ञानवत्त्वादेव चायं कपिलप्रभृतिमहर्षीनामपि गुरुः" इति॥१॥१९॥
ईश्वरे अन्यात्मतो वैशिष्ट्यख्यापनाय तद्गतानां ज्ञान-वैराग्यैश्वर्यधर्माणामप्रतिघत्वमुपदर्शयति
ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥ २॥ १९५॥ ज्ञानमप्रतिघमिति-यस्य जगत्पतेर्ज्ञानं वैराग्यमैश्वर्य धर्मश्चेति चतुष्टयमप्रतिघं सह सिद्धं चेति, ज्ञानं नित्यत्वेन सर्वविषयत्वात् कचिदपि प्रतिहतमनवगाहनस्वभावं न भवति; माध्यस्थ्यलक्षणं वैराग्यं च क्वचिदपि वस्तुनि रागाभावादप्रतिघम् ; अणिमा-लघिमा-महिमा-प्राप्ति-प्राकाम्य-वशित्वेशित्व-यत्रकामावसायित्वभेदादष्टविधमैश्वर्य पारतत्र्याभावादप्रतिघम् , यतो महानप्यणुर्भवति, सर्वभूतानामप्यदृश्यः, सोऽणिमा, यतो लघुर्भवति सूर्यरश्मीनप्यवलम्ब्य सूर्यलोकादिगमनसमर्थः स लघिमा, यतोऽल्पोऽपि नाग-नगादिमानो भवति स महिमा, यतो भूमिष्ठस्याप्यङ्गुल्यग्रेण गगनस्थादिवस्तुप्राप्तिः सा प्राप्तिः, प्राकाम्यमिच्छानभिघातः, यत उदक इव भूमावुन्मजति निमजति च, वशित्वं यतो भूतभौतिकेषु स्वातत्र्यम्, ईशित्वं यतस्तेषु प्रभव-स्थिति-व्ययानामीष्टे, यत्रकामावसायित्वंयतः सत्यसङ्कल्पता भवति, यथेश्वरसङ्कल्पमेव भूतभावादिति; धर्मश्च प्रयत्नसंस्काररूपोऽधर्माभावादप्रतिघः । एतच्चतुष्टयं सह सिद्धम् अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम्, जन्यधर्मानाश्रयत्वादेव स्वगतधर्मस्वरूपेणापि न नश्यतीत्यप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वलक्षणं कूटस्थत्वं तस्य निर्वहतीति ॥ २॥ १९५ ॥ तस्य कर्तृत्वं व्यवस्थापयतिअज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वभ्रमेव वा ॥३॥ १९६॥