________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः कर्तेत्यनेनान्वयः, इष्यते अभ्युपगम्यते, कीदृशः स इत्यपेक्षायामाह-अचिन्त्यचिच्छक्तियुक्त इति–इन्द्रियादिकारणं विनाऽपि यथावत्सर्वविषयावगाहनस्वभावेत्यतश्चिन्तयितुम्-अस्यैतद्विषयनिबन्धनमेतस्मात् कारणादेतद्विषयनिबन्धनं पुनरन्यस्मादतः, इत्येवं विचारविषयीकर्तुमशक्या, या चिच्छक्तिश्चेतना, तया युक्तः-अविच्छेदेन तदाश्रयः, सर्वदा सर्वविषयकज्ञानवान्, तथा अनादिसिद्धश्च अमुकस्मिन् काले बन्धरहितत्वलक्षणसिद्धत्ववान् इति न, किन्तु सर्वदेव बन्धात्यन्ताभाववान् , नित्यमुक्त इति यावत् । __ अत्र शिष्यबुद्धिवैशद्यायोपाध्यायैः पातञ्जलाद्यभिमतबन्धप्रभेदादिकमुपदर्शितमुल्लिख्यते-"विविधो हि तैर्बन्ध उच्यते-प्राकृतिक-वैकारिक-दाक्षिणभेदात्, तत्र प्रकृतावात्मत्वज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, यान प्रतीदमुच्यते
“पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः" [ ] इति, ये तु विकारानेव भूतेन्द्रिया-ऽहङ्कार-बुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिको बन्धः, यान् प्रतीद
मुच्यते
"दृश मन्वन्तराणीह, तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्ण, सहस्रं त्वाभिमानिकाः ॥ १ ॥
बौद्धाः शतसहस्राणि, तिष्ठन्ति विगतज्वराः ॥" [ ] इति, इष्टापूर्ते दाक्षिणो बन्धः, पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति; इयं च त्रिविधाऽपि बन्धकोटिरीश्वरस्य मुक्तिं प्राप्यापि भवे पुनरेष्यता प्रकृतिलीनत्वज्ञानानां योगिनामिव नोत्तरा, नवा पूर्वा संसारिमुक्तात्मनामिव, इति निर्बाधमनादिसिद्धत्वम् ; अत्र मुक्तिं प्राप्यापि भवे पुनरेष्यतां प्रकृतिज्ञानानां योगिनां यथोत्तरा बन्धकोटिः, यथा वा संसारिमुक्तात्मनां पूर्वा बन्धकोटिः, तथा ईश्वरस्योत्तरा विविधाऽपि बन्धकोटिरुत्तरा न, नवा पूर्वाऽपीत्यन्वयार्थः, तथा चाह पतञ्जलि:-"क्लेश-कर्मविपाका-ऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः” [योगसूत्रे-१, २४ ] इति, क्लेशाः -- अविद्या-ऽस्मिता-राग-द्वेषा-ऽभिनिवेशाः, कर्माणिशुभा-ऽशुभानि, तद्विपाको-जात्यायु गाः, आशयाः-नानाविधास्तदनुगुणाः संस्काराः, तैरपरामृष्टोऽसंस्पृष्टः, सर्वज्ञतया भेदाग्रहनिमित्तकाऽविद्याऽभावात् , तस्या एव च सर्वहेतुसर्वक्लेशमूलत्वात् , तथा च सूत्रम् - "अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम्" [योगसूत्रे २, ४] इति, अनभिव्यक्तरूपेणाव